অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

प्रधानमन्त्री-जीवनज्योति-अभिरक्षायोजना

अस्यां अभिरक्षायोजनायां प्रतिवर्षं नवीनीकरणीयं वार्षिकसुरक्षया सह कस्माच्चिदपि कारणाद् मृत्यौ सति जीवन-अभिरक्षाकवचस्य संस्तुतिः कृता। इयं योजना भारतीय-जीवन-अभिरक्षा-निगमेन (एलआईसी) प्रशासिता भविष्यति तथाच च अन्यजीवन-अभिरक्षा-संस्थाः आवश्यकस्वीकृतेरनन्तरं वित्तकोशान् संलग्नीभूय एतादृश्याम् अभिसन्धौ उत्पादं प्रदास्यन्ति। सहभागिवित्तकोषाः तादृशीं अन्यां जीवनाभिरक्षासंस्थां संलग्नीकृत्य स्वग्राहकेभ्यः इयं योजनां प्रवर्तयितुं शक्नुवन्ति।

कवरेजसीमा

सहभागिवित्तकोशानां 18-50वर्षीयाः सर्वे संचितलेखाधारकाः अस्मिन् अधिकारिणः भविष्यन्ति। कस्यचिदपि व्यक्तेः एकस्मिन् विविधवित्तकोषेषु संचयलेखाः स्युश्चेत् तस्मिन् परिस्थितौ सः केवलं एकयैव लेखया अस्यां योजनायां संभागं ग्रहीतुं शक्नोति। लेखायै आधारपत्रप्राथमिककेवाईसी भविष्यति।

नामाङ्कनस्यावधिः- प्रारम्भे एकजून् 2015तः 31मई2016पर्यन्तं सुरक्षात्मिकावधये 31मई-2015पर्यन्तम् अस्यां योजनायां ग्राहकैः नामनिवेशः करणीयः भविष्यति तथा च स्वतःनाम्नः सहमतिर्देया भविष्यति। संभावितकवचस्य कृते विलम्बेन नामाङ्कनं 31अगस्त2015पर्यन्तं सम्भावितं भविष्यति यस्य अवधिः भारतसर्वकारेण त्रिमासाय अर्थात् 30नवम्बर्2015पर्यन्तं अग्रसारयितुं शक्यते। ये अनन्तरं सम्मिलितुमिच्छन्ति ते पूर्णवार्षिकप्रीमियम्-इत्यनेन सह निर्धारितप्रारूपे उत्तमस्वास्थ्यस्य स्वप्रमाणपत्रं प्रस्तूय सम्भावितकवचं प्राप्तुं शक्नुवन्ति।

नामनिवेशसाधनम्

कवचं 1जूनतः 31मईपर्यन्तम् एकवर्षाय भविष्यति यस्मिन् सम्मिलिते सति ... नासमत..... संचयलेखायाः स्वतःनामद्वारा नामाङ्कनं/शोधनं कर्तुं निर्धारितप्रपत्रेषु प्रतिवर्षं 31मईपर्यन्तं प्रारम्भिकवर्षाय उक्तरूपे अपवादेन सह विकल्पप्रस्तुतिरनिवार्या भविष्यति। सम्भावितकवचस्य विलम्बितनामाङ्कनं पूर्णवार्षिकशोधनेन सह उत्तमस्वास्थ्यप्रमाणपत्रं प्रस्तूय सम्भविष्यति। एतां योजनां त्यक्तारः जनाः कस्मिंश्चिदपि समये भविष्यवर्षेषु निर्धारितप्रपत्रेषु उत्तमस्वास्थ्यघोषणया सह अस्यां योजनायां पुनःप्रवेष्टुं शक्न्वन्ति। आगामिवर्षेषु पात्रश्रेण्यां नवसदस्यः वर्तामाने वा पात्रव्यक्तिः यः पूर्वं अस्यां योजनायां न सम्मिलितः आसीत् उत यैः अंशदानं विरमितमासीत्, अस्यां योजनायां यदि स प्रवर्तमानः अस्ति तर्हि उत्तमस्वास्थ्यघोषणया सह प्रविष्टुं शक्नुवन्ति।

लाभः

कस्माच्चिदपि कारणात् सदस्ये मृते सति 2लक्षरुप्यकाणि देयानि भविष्यन्ति। प्रीमियम्- रू.330/-प्रतिसदस्यं प्रतिवर्षम्। अस्यां योजनायां दत्तविकल्पानुसारं प्रीमियम् एकस्मिन् भागे स्वतःनामसुविधामाध्यमेन लेखाधारकस्य सञ्चयलेखायाः वार्षिकव्याप्त्यवधेः 31मईमासे ततः पूर्वं वा स्वीकरिष्यते। 31मईतः परं सम्भावितकवचाय विलम्बितनामाङ्कनं पूर्णवार्षिकवृद्धेः परिशोधनेन सह उत्तमस्वास्थ्यसम्बन्धिप्रमाणपत्रं प्रस्तूय सम्भविष्यति। वार्षिकाधिकारानुभवस्याधारे प्रीमियम् इत्यस्य समीक्षा विधास्यते। अतिशयप्रकारकानपेक्षितप्रतिकूलपरिणामानतिरिच्य अयं प्रयतिष्यते यत् प्रथमत्रिवर्षेषु प्रीमियम् इति न वर्धनीयम्।

पात्रातायाः अभिसन्धिः

क-सहभागिवित्तकोशानां संचयलेखाधारकाः येषां आयु 18वर्ष(पूर्णं)तः 50वर्षं (जन्मदिवसस्य निकटतमायुः) इत्यनयोः मध्ये स्थीयते तथा च उक्तसाधनरूपेण योजनायां प्रविष्टुं/स्वतःनाम्ने सहमतिः दद्युः ते अस्यां योजनायां सम्मिलितुं शक्नुवन्ति। ख-ये जनाः प्रारम्भिकनामाङ्कनावधेरनन्तरं 31अगस्त्2015 या 30नवम्बर्2015पर्यन्तं विस्तारितावधिपर्यन्तं योऽपि विषयः स्यात्, योजनायां सम्मिलन्तः सन्ति तैः एकं आत्मप्रमाणीकरणं अनिवार्यतया दातव्यम् यत् तेषां स्वास्थ्यं उत्तमं अस्ति तथा च केनचिदपि गभीररोगेण यथा नामाङ्कनसमयसहमतिसह-घोषणापत्रे उल्लिखितं तेन ग्रस्ताः न सन्ति। प्रधानमन्त्रीजीवनज्योति-अभिरक्षायोजनायाः मुख्यतथ्यानि-

1

प्रीमियमराशिः

330रू.प्रतिवर्षम्

2

कवरेजनियमः

मृत्युकवरेज् (एक्सीडेंटल/सामान्यम्)

3

आयुसीमा

18तः 50वर्षः

4

कवरेज-अवधिः

50वर्षपर्यन्तम्

मास्टरपॉलिसीधारकः

सहभागिवित्तकोषाः मास्टरपॉलिसीधारकाः भविष्यन्ति। सहभागिवित्तकोशैस्ह परामर्शानन्तरं जीवन-अभिरक्षा-निगमेन/ अन्यसंस्थया एकं सरलं ग्राहकानुकूलं प्रशासनं स्वामित्वनिश्चितीकरणस्य प्रक्रियायै अन्तिमं रूपं प्रदास्यते।

आश्वासनस्य समाप्तिः

सदस्यस्य जीवने आश्वासनं निम्नलिखितघटनासु कस्यांचिदपि एकस्यां घटिते सति समाप्तं भविष्यति तथा च तस्मिन् परिस्थितौ न कश्चन लाभः देयः भविष्यति-

  • 55वर्षस्य आयौ (जन्मदिवसस्य निकटतमायुः) सति अभिसन्धितया इदं यत् तत्तिथिपर्यन्तं (प्रवेशः यद्यपि 50वर्षस्य आयोरनन्तरं न सम्भविष्यति) वार्षिकनवीनीकरणं भवेत्।
  • वित्तकोषेन सह लेखायाः समाप्ते सति अभिरक्षाकवचस्य नैरन्तर्यं संचालनाय पर्याप्तराशेरभावे सति।
  • यदि सदस्यः एलआईसी/अन्यसंस्थया सह एकाधिकलेखामाध्यमेन अधिकृतः तथा एलआईसी/अन्यसंस्थया अपरिज्ञाने एव प्रीमियम् लभते तर्हि अभिरक्षाकवचं 2लक्षरुप्यकाय प्रतिबन्धितं भविष्यति तथाच प्रीमियम् अधिग्रहणाय उत्तरदायिभविष्यति।
  • यदि बीमाकवर्-इति देयतिथौ कस्माच्चित् तकनीकिकारणात् (यथा पर्याप्तराशेरभावात् प्रशासनिककारणात्) समाप्तं भवति तत्तदा पूर्णवार्षिकप्रीमियम-उत्तमस्वास्थ्यस्य सन्तोषजनकवचनेन पुनः निरन्तरीक्रियते।
  • सहभागिवित्तकोषः नियमितनामाङ्कनविषयेषु प्रतिवर्षं 30जून् वा ततः पूर्वं वा तथा अन्यविषयेषु प्राप्तमासे प्रीमियम प्रवर्तयिष्यति

प्रशासनम्

उपरोक्ताभिसन्ध्यनुसारम् इयं योजना एलआईसीपेंशन्-समूहयोजनाईकाईद्वारा/अन्याभिरक्षासंस्थया प्रशासिता भविष्यति। डाटाप्रवाहस्य प्रक्रिया डाटापरफॉर्मा च पृथक्तया सूचयिष्यते। लेखाधारकेभ्यः देयतिथौ ततःपूर्वं वा स्वतःनामेतिप्रक्रियया विकल्पानुसारं नियतवार्षिकप्रीमियम्-इत्यस्य नियतभाक्ग्रहणस्य उत्तरदायित्वं सहभागिवित्तकोषस्य भविष्यति। सदस्याः योजनायां प्रवर्तमाने सति प्रतिवर्षं स्वतःनामहेतुः एकवारं मैरिट् इत्यममुमपि प्रदातुं शक्नुवन्ति। निर्धारितप्रारूपे नामाङ्कप्रपत्रं/ स्वतःनाम/सहमतिसहघोषणापत्रं सहभागिवित्तकोषात् उपलप्स्यते निधास्यन्ते च। स्वामित्वविषयेषु एलआईसी/अभिरक्षासंस्था अस्य प्रस्तुतीकरणार्थं वक्तुं शक्नोति। एलआईसी/अभिरक्षासंस्था कस्मिंश्चिदपि समये एतानि पत्राणि संदर्शनाय अधिकारी वर्तते। पावतेः पावती-सह-अभिरक्षा-प्रमाणपत्रत्वेन निर्गमनं क्रियते। आवश्यकतानुसारं वार्षिकाधारे अंशाकनसाहाय्यार्थं इयं योजना अनुभवस्य नेतृत्वं धारयिष्यति।

प्रीमियम-इत्यस्य विनियोगः

एलआईसी/अभिरक्षासंस्थाभ्यः बीमाप्रीमियम् – रू.289/प्रतिवर्षं प्रतिसदस्यम्। बीसी/माइक्रो/निगमितेभ्यः/अभिकर्तृभ्यः व्ययप्रतिपूर्तिः- रु.30/-प्रतिवर्षं प्रतिसदस्यम्। सहभागिवित्तकोषेभ्यः प्रशासनिकव्ययप्रतिपूर्तिः- रु.11/-प्रतिवर्षं प्रतिसदस्यम्। अस्याः योजनायाः प्रस्ताववती प्रारम्भतिथिः 01जून्-2015 भविष्यति। उत्तरवतीवार्षिकनवीनीकरणतिथिः प्रत्यनुक्रमिकवर्षे जूनमासस्य प्रथमदिनाङ्के भविष्यति। यदि तादृशी स्थितिः स्यात्तर्हि अग्रमिनवीनीकरणतिथेः प्रारम्भात् प्राक् इयं योजना समापयितुं शक्यते।

स्रोतः- पोर्टलविषयसामग्रीसमूहः

Last Modified : 10/31/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate