द्वितीयविश्वयुद्धानन्तरमौपनिवेशिकावधेरनन्तरं नवोदितराष्ट्रेषु व्यापक-विकसितौपचारिकशिक्षायाः तीव्रगत्या गतिविधयः आरब्धाः। षष्टतमे दशके सर्वत्रैव चिन्ता आसीत् यदौपचारिकशिक्षायाः सुविधाविस्तारानन्तरमपि सर्वाः समस्याः न समासाधिताः। औपचारिकशिक्षात्वेन अनौपचारिकशिक्षात्वेन च शिक्षायाः वर्गीकरणम् एकं व्यवधानं व्यदधाति। फिलिपकूम्बसप्रभृतीनामध्ययनात् ज्ञातं यत् विकसितसमाजे एकस्या नवीनायाः शिक्षाप्रणाल्याः विकासः कृतः या अनौपचारिकी शिक्षा निगद्यते। अस्याम् अनौपचारिक्यां शिक्षायां तीव्रगत्या परिवर्तनशीलसमाजस्य न्यूनावधिकावश्यकतापूर्त्त्यै अतिक्रियात्मककार्यक्रमाः आसन्।
अनौपचारिकशिक्षा निर्बल-अप्रागतिकवर्गेभ्यः शैक्षिकावसरान् प्रयच्छति। नमनीयता अनौपचारिकशिक्षायाः कुञ्जिका वर्तते। अस्यां शिक्षायां विस्तृतिः वर्तते। प्रवेश-पाठ्यक्रम-शैक्षिकस्थल-शिक्षाप्रणाली-प्रशिक्षणसमय-अवधिप्रभृतिषु न किञ्चन बन्धनं वर्तते। एते च परिस्थित्यनुसारं परिवर्तयितुमपि शक्यन्ते। अनौपचारिकशिक्षायाः कानिचन उदाहरणानि सन्ति। मुक्तविद्यालयः मुक्तविश्वविद्यालयः मुक्ताधिगमः पत्राचारपाठ्यक्रमः इत्यादयः। अनौपचारिकशिक्षायाः एकमुदाहरणं वर्तते- मुक्तविद्यालयः यस्य प्रमुखानि लक्ष्याणि निम्नाङ्कितानि सन्ति-
अनौपचारिकशिक्षायां प्रौढशिक्षा-सततशिक्षापर्यन्तं कर्मणिरताः शिक्षाश्रमिकाः सन्ति।
ईसवीब्दे 1968तमे वर्षे फिलिपकूम्बसद्वारा अनौपचारिकशिक्षायाः चर्चा कृता। परन्तु सा 1970तमाद् वर्षादनन्तरमेव परिभाषिता। वस्तुतस्तु अनौपचारिकशिक्षा एकाप्राचीनप्रणाल्याः नूतनमभिधानं वर्तते। अनौपचारिकशिक्षायाः काश्चनपरिभाषाः निम्नलिखिताः सन्ति-
अनौपचारिकशिक्षाकार्यक्रमान् संगठयितुं विविधसाधनानि सन्ति-
शिक्षायाः तिसृषु प्रणालीषु अनौपचारिकशिक्षा अपि अन्यतमा वर्तते। अन्ये च स्तः- औपचारिकशिक्षा अनौपचारिकशिक्षा च। अस्तु अनौपचारिकशिक्षायाः व्यवस्था औपचारिकानौपचारिकशिक्षयोर्मध्ये द्रष्टव्याः आयोजयितव्या च। तस्याः संगठनम् औपचारिकानौपचारिक्याभ्यां पृथक्त्वेन न करणीयं यतोहि अनेन सा अपर्याप्तप्रभावहीनप्रणालीत्वेन सम्भविष्यति। अपरतः ताम् आधारभूतकौशलान् यावदेव न सीमितीकरणीयम्। तस्याः व्यवस्था समग्रसामाजिक-आर्थिकपरिवेशे आधुनिकसामाजिकसन्दर्भाय अधिकसंगठितसमुदायाय च करणीयम्। समुदायोऽयं तादृशं परिवर्तनं नवीनीकरणं च प्रतीक्षते यस्मिन् शिक्षायाः त्रिविधापि प्रणाल्यः योगदानं कर्तुं शक्ष्यन्ति। तदर्थं सामुदायिकावश्यकता-अधिगमव्यवस्थयोर्मध्ये स्थितभेदस्य निराकरणमावश्यकमस्ति।
औपचारिकशिक्षा | अनौपचारिकी शिक्षा | |
---|---|---|
1 | शिक्षायाः अवधौ सीमिता | विशिष्टावधौ न भूत्वा जीवनपर्यन्तं प्रचाल्यमाना |
2 | साधारणतया कार्यादसङ्कलिता | कार्येण सङ्कलिता |
3 | प्रवेशबहिर्गमनाय निश्चितबिन्दुः | प्रवेशनिर्गमनपुनःप्रवेशसहिता व्यक्तेःआजीवनं प्रचाल्यमाना वर्तते। |
4 | सुनिश्चितपाठ्यक्रमः | विविध-बहुमुखिपाठ्यक्रमः |
5 | दाता मुख्यः ग्रहीता च निष्क्रियो भवति। | सहभावेनान्वेषणम्, वैश्वीकरणं, निर्णयसामर्थ्यस्य प्रतिभागितायाः प्रक्रिया |
6 | ज्ञानप्राप्त्यै | परिस्थितीनां पारस्परिकसम्बन्धज्ञानस्य प्रक्रिया |
7 | आलोचनाविहीनम् आज्ञापालनमुत्पादयति | मुक्तशिक्षाप्रक्रिया,या आत्मनिर्भरतायाः बोधं जनयति। |
8 | सुनिश्चितसामाजिकसन्दर्भे कार्यरता | परिवर्तनस्य पूर्वापेक्षा सिद्धता च |
9 | परम्परागतविद्यालयीकरणेन सम्बद्धा यस्यां विद्यालयीकरणं कञ्चित् विद्यालयपर्यन्तमेव सीमितीभवति | कस्याञ्चिदपि शिक्षाव्यवस्थायां असीमिता |
10 | शिक्षायाः विविधपक्षेषु कठोरता, यथा- प्रवेश-पाठ्यक्रम-शिक्षाप्रणाली-शिक्षणकार्यावधौ कठोरता। | शिक्षायाः विविधपक्षेषु अत्यधिकनमनीया। |
अनौपचारिकशिक्षा जीवनस्य यथार्थानुभात् विलगां न कर्तुं शक्यते। आधुनिकशिक्षाव्यवस्था औपचारिक-अनौपचारिक-अनौपचारिकव्यवस्थाः सन्तुलयितुं प्रयतते। सा शिक्षायाः सामाजिक-राष्ट्रिय-अन्ताराष्ट्रियपरिवेशे समन्वयं कारयति। शिक्षाशास्त्रिभिः शिक्षकैः च यथासम्भवं औपचारिकशिक्षायाः विपदः दूरीभवितव्यः, अनौपचारिक-अनौपचारिकशिक्षायाः गुणानां लाभः स्वीकर्तव्यः।
अनौपचारिकशिक्षा सामाजिकार्थिकविकासयोजनासु तान् विभेदान् पाटयति यैः प्रगतिर्बाद्ध्यते। अस्तु वस्तुतस्तु तस्याः स्वस्याः प्रामाणिकाधिकारः वर्तते। सा ऐच्छिकी नियोजिता व्यवस्थिता आर्थिकसहायताप्राप्ता शिक्षाप्रणाली वर्तते। सा औपचारिकशिक्षा इव क्रियात्मका स्थान-काले असीमिता आवश्यकताः प्रति प्रतिक्रियात्मकशिक्षाप्रणाली वर्तते। आवश्यकतानां परिवर्तनस्य च विकासाय द्वाराणि उद्घाटयति। माल्कमादिशियावर्यस्य शब्देषु अनौपचारिकी शिक्षा आपणयोग्या व्यावसायिकी च भवितव्या। तस्यां स्वयमधिगमे प्रतिदिवसं बलं देयम्। एच.ऐसी.ऐसी लोरिन्सवर्यस्य शब्देषु-‘अनौपचारिकशिक्षाव्यवस्था औपचारिकशिक्षाव्यवस्थायाः न तु प्रतियोगिनी प्रत्युत् पूरकत्वेन राजते। अस्यां सामान्यतत्वानां परिज्ञानं करणीयम्, संकलितव्यवस्थायाः च विकासः करणीयः।’
अनौपचारिकशिक्षाप्रौढशिक्षयोर्मध्ये अन्तरं ज्ञापयन् अनिकबोर्डियोवर्यः लिखति- ‘नवानौपचारिकशिक्षाव्यवस्था पूर्वं प्रौढशिक्षाकार्यक्रमेभ्यः एतस्मिन् सन्दर्भे भिन्ना यत् सा उपयुक्तप्रशासनिकीं संसाधनिकीं च सहायतां प्रयच्छति तथाच आवश्यकताधारितपाठ्यक्रम-अध्यापन-अधिगमसामग्रीं प्रति आग्रहं प्रदर्शयति परन्तु एकस्मिन् सतताधिकारे सर्वेषु स्तरेषु मूल्याङ्कने आग्रहं प्रदर्श्य सा अद्वितीया वर्तते। अस्यां सर्वविधप्रशिक्षणकार्यक्रम-अध्यापन-अधिगमसामग्रीणां पूर्वपरीक्षा करणीया प्रभाविअध्ययनेषु च आग्रहः देयः।’
स्रोतः शिक्षायाः सिद्धान्तः, जेवियरसमाजसेवासंस्थानम्
Last Modified : 10/22/2019