विवरणं

बालिकाः प्रति जनानां सकारात्मकभावनां करणाय तथा तासां लिंगानुपाते सुधारं करणाय मध्यप्रदेश -सर्वकारः लाडलीलक्ष्मी योजनां प्रारब्धं अकरोत् । एषा योजना 01 अप्रैल, 2007 तः प्रारम्भा अभवत् । एतस्याः अनन्तरं 6 राज्यानि अपि एतां योजनां स्वराज्ये अधिनियमितं कृतवन्तः अस्याः योजनायाः उद्देश्यं बालिकाः प्रति स्नेहं तथा च तासां शैक्षणिकस्तरे स्वास्थ्यस्तरे च सुधारकरणं वर्तते ।

प्राप्यमाणाः लाभाः

लाडलीयोजनायाः अनुसारं सर्वकारपक्षतः बालिकायाः जन्मतः(रजिस्ट्रेशन) अग्रे पंचवर्षपर्यन्तं प्रतिवर्षे 6000 रुप्यकाणि तासाङ्कृते वित्तकोषे स्थाप्यते । अस्याः योजनायाः अनुसारं सर्वकारः प्रत्येक वर्षे 6000 रुप्यकानां राष्ट्रियसुरक्षित पत्रं (NSC))क्रीणाति तथा एतत् समये समये न्यूनं करोति।

आहत्य 30,000 रुप्यकाणि बालिकानां कृते सुरिक्षितं भवन्ति । यदा बालिका षष्ठ्यां कक्षायां प्रवेशं प्राप्नोति तदा 2,000 तथा नवम्यां प्रवेशकरणसमये 4,000 धनस्य प्रदानं करोति ।

एकादश्यां कक्षायां प्रवेश समये 7500 धनं प्राप्तं भविष्यति । यदा बालिकायाः आयुः 21 वर्षस्य भविष्यति तदा तस्यै 1 लक्ष धनराशेः प्रदानं भविष्यति ।

पात्रता

यस्याः पितरौ उत्तरप्रदेशस्य निवासिनौ भवेताम् तथा यत्र एषायोजना वर्तते तस्मिन् क्षेत्रे तौ आयकरदातारौ न भवेत् ।

बालिकायाः प्रकरणे आवेदनकरणात् पूर्वं पितरौ स्वपरिवारस्य नियोजनं अकुरुताम् ।

अस्याः योजनायाः लाभस्वीकरणार्थं जन्मतः पूर्ववर्षे एव बालिकायाः नामाङ्कनं अनिवार्यमस्ति ।

एतत् धनं तदा एव प्रदीयते यदा बालिकायाः विवाहः 18 तः अल्पवयसि न भवेत् ।

एतं लाभं बालिकाद्वयं प्राप्नोतुं शक्नोति परन्तु यदि उभे युगले स्तः तर्हि तृतीया अपि एतं लाभं स्वीकर्तुं शक्नोति ।

लाडलीलक्ष्मीयोजनायां केवलं निर्धनरेखायाः अधः जीवनयापनकुर्वन्तः जनाः एव नामाङ्कनं कारयितुं शक्नुवन्ति ।

यदि कोपि परिवारः अन्यस्य संतति स्वकृतवान चेत सोऽपि दत्तकपुत्र्यै नामाङ्कनं कारयितुं शक्नोति ।

येषां पितरौ जीवीतसंततिः अनन्तरं एकां बालिकां दत्तकपुत्रीरूपे स्वीकृतवन्तौ । तौ अपि अस्याः लाभं प्राप्तुं शक्ष्यतः , तासां आंगनबाडीकेन्द्रे रजिस्टर्डभवनं आवश्यकं वर्तते । तथा चा तौ (पितरौ) आयकर प्रदातारौ न भवितव्यौ ।

आवेदनं कथं कुर्यात्

प्रदेशसर्वकारेण लाडलीलक्ष्मीयोजनायाः कृते आधिकारिकोऽन्तर्जालमाध्यमः (वेबसाइट) प्रारब्धः तत्र आवेदनं कर्तुं शक्यते अथवा प्रदेशसर्वकारस्य मुख्यान्तर्जालमाध्यमेऽपि आवेदनं कर्तुं शक्यते । यदि आवेदकः ऑनलाइन माध्यमेन आवेदनं कर्तुं न इच्छति चेत् आंगनबाड़ीकर्तृभिः सह अथवा स्वनगरस्य नगरपंचायतेन सह अपि संपर्कं कर्तुं शक्नोति ।

अधिकविवरणार्थं क्लिक कुर्यात्