बालिकाः गृहस्य लक्ष्म्यः भवन्ति । बहुविधैः कारणैः बालिकानां जन्मदरः न्यूनतां प्रति गच्छति । अतः बालिकानां जन्म प्रोत्साहितकरणार्थं तथा च ताः शिक्षितं च करणार्थं ताः सशक्तकरणार्थञ्च सर्वकारः 1 जून 2016 तः से मुख्यमंत्री राजश्री योजनां राज्ये प्रारम्भं कृतवान् । अस्याः योजनायाः उद्देश्यानि सन्ति बालिकानां जन्मक्रमे वृद्धिः भवेत् तथा च बालिकानां पालनं पोषणं सम्यक्तया भवेत् येन बालिकाः संपठ्य अग्रे गच्छेयुः । विभिन्नचरणेषु बालिकानाम् अभिभावकानां कृते प्रदत्ताः आर्थिक्यः सहायताः बालिकानां जन्मतः आरभ्य कक्षा द्वादशी पर्यन्तं बालिकायाः अध्ययनाय स्वास्थ्याय पालनपोषणाय च अभिभावकेभ्यः 50000 वित्तस्य आर्थिकी सहायता प्रदीयते । एषा राशिः निम्नचरणेषु प्रदीयते बालिकायाः जन्मसमये 25000 सहस्रं रुप्यकाणि एकवर्षस्य टीकाकरणानन्तरं 2500 रुप्यकाणि प्रथमकक्षायां प्रवेशग्रहणे सति 4000 रुप्यकाणि षष्ठ्यां कक्ष्यायां प्रवेशग्रहणे सति 5000 रुप्यकाणि दशमीकक्ष्यायां प्रवेशग्रहणे सति 11000 रुप्यकाणि द्वादशीकक्षाम् उत्तीर्णानन्तरम् 25000 रुप्यकाणि लाभस्य पात्रता राजश्री योजनायाः सर्वप्रथमं धनस्य भागद्वयं ताः बालिकाः प्राप्स्यन्ति यासां जन्म कस्मिन्नपि सर्वकारि चिकित्सालये अथवा जननीसुरक्षायोजना (जे.एस.वाई.) तः अधिकृत- निजीचिकित्सालये अभवत् । सम्पूर्णधनस्य प्रथमं भागद्वयं तासाम् अभिवाकाः अपि प्राप्स्यन्ति याषां तृतीया संततिः अपि पुत्री भवेत् परन्तु ते धनस्य अग्रिमभागस्य लाभं प्राप्तुं न शक्नुवन्ति ।राजश्री योजनायाः लाभः वित्तकोषे भवेत् अतः एतं (वित्तकोषं) भामासाहकार्डयोजनया संश्लिष्टः कृतः । संपर्कं कुर्यात् राजश्री योजनायाः लाभं सुविधापूर्वकं स्ववित्तकोषे प्राप्त्यर्थं भामासाहकार्डनिर्माणं अवश्यमेव कारयेत्।योजनायाः विषये अधिकविवरणार्थं स्वजनपदस्य कार्यक्रमाधिकारिणा महिलाधिकारणा अथवा मुख्यचिकित्सास्वास्थ्याधिकारणा सह सम्पर्कं कुर्यात् । ’भामासाहकार्ड’ अनिवार्यता योजनायाः लाभप्राप्तुं लाभार्थिनः भामासाहकार्ड अनिवार्यो वर्तते 15 मई 2017 तः अनन्तरस्य भामासाहकार्ड यदि अस्ति चेत् तस्य वित्तप्रेषणं तस्य वित्तकोषे एव भविष्यति । भामासाहकार्डनिर्माणाय सम्पर्कं कुर्यात् लाभप्राप्तुं गर्भवतीमहीलाः प्रसवपूर्वं परीक्षणोपरान्त भामासाहकार्ड तथा ‘भामासाहकार्ड’ अनेन सह युक्तं वित्तकोषविवरणं निकटतमस्य आंगनबाड़ीकेन्द्रे ए.एन.एम अथवा आशा अथवा आंगनबाड़ीकार्यकर्तारं प्रति , चिकित्संस्थानेऽपि उपलब्धं कारयेत् । यासां लाभार्थीमहिलानां भामासाहप्रपत्रे नामाङ्कनं न सञ्जातम् । ताः महिलाः स्वनिकटतमे ई-मित्रकेन्द्रे भामासाहप्रपत्रस्य निर्माणम् अवश्यमेव कारयेत् । निकटतम-आंगनबाड़ीकेन्द्रे अथवा राजकीयचिकत्सासंस्थाने विविरणम् उपलब्धं कारयेत् । अस्मिन् विषये अधिकज्ञानार्थं क्लिक कुर्यात् ।