অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

मेक-इन-इण्डियाकार्यक्रमः

मेक-इन-इण्डिया-एकः परिचयः

मेक-इन-इण्डियाकार्यक्रमस्य उद्देश्यमस्ति-भारतस्य कृतिकोशत्वेन स्थापना। स्वदेशी-विदेशीनिवेशकेभ्यः मूलतः एकं अनुकूलं वातारवरणं प्रदातुं अभिसन्धिः कृता अस्ति। तस्माद् 125-कोटिजनसंख्याधारकं दृढभारतं एकस्मिन् विनिर्माणकेन्द्रे परिवर्त्य व्यवसायस्य अवसराः उद्भवेयुः। अनेन व्यापारे व्यापकः प्रभावः प्रपतिष्यति तथा च अस्मिन् नवाचाराय आवश्यकतत्त्वद्वयोः –नूतनमार्गः अवसराणां दोहनं वा, सुसन्तुलनाय समस्याभिः आभिमुख्यपूर्वकं निवारणं च। परन्तु मेक-इन-इण्डियाकार्यक्रमस्य प्रथमतोपादानं वस्तुतः आर्थिकविवेकस्य प्रशासनिकसुधारस्य च न्यायसङ्गतमिश्रणत्वेन दृष्टम्। अनेन इदं प्रथमावतरणं जनताजनादेशस्य- ‘एक आकाङ्क्षी भारत’ इत्यममुम् आह्वानं समर्थयति।

प्राप्यमाणानि लक्ष्याणि

  • मध्यावधेः तुलनायां विनिर्माणक्षेत्रे 12-14प्रतिशतं वार्षिकवृद्धेः लक्ष्यम्।2022 पर्यन्तं देशस्य सकलस्वदेशी-उत्पादे विनिर्माणस्य प्रतिभागितायां 16025प्रतिशतवृद्धिः।
  • वर्ष 2022पर्यन्तं विनिर्माणक्षेत्रे 100न्यर्बुदं (मिलियन) अतिरिक्तव्यवसायसर्जनम्।
  • ग्राम्यप्रवासि-नगरीयनिर्धनेषु समग्रविकासाय समुचितकौशलनिर्माणम्।
  • स्वदेशीमूल्यसंवर्धनविनिर्माणयोः तकनीकिज्ञाने वृद्धिः।
  • भारतीयविनिर्माणक्षेत्रस्य वैश्विकप्रतिस्पर्धायां वृद्धिः।
  • विशेषतः भारतीयपर्यावरणसन्दर्भे विकासस्य स्थिरतायाः सुनिश्चितीकरणम्।

सकारात्मकतथ्यानि

  • भारतं विश्वेस्मिन् तीव्रतमगत्या प्रवर्धमानार्थव्यवस्थात्वेन स्वोपस्थितिं निश्चितीकृतवान् अस्ति।
  • अयं देशः विश्वे तीव्रतमगत्या प्रवर्धमानासु अर्थव्यवस्थासु सम्मिलितो भविष्यति। तथा च अयं विश्वासः यत् वर्षं2020पर्यन्तं अयं विश्वे विशालोत्पादकदेशः सम्पत्स्यते।
  • अग्रिमयोः द्वयोर्दशकयोः अत्रत्य जनसंख्या वृद्धिः उद्योगानुकूलं भविष्यति जनशक्तिश्च कार्याय सममात्रायाम् उपलब्धा भविष्यति। अन्यदेशेभ्यः तुलनायां अत्र जनशक्तौ न्यूननिवेशो भवति।
  • अत्रत्य व्यावसायिकपरिवाराः उत्तरदायित्वमूढ्य विश्वसनीयतया व्यावसायिकरूपेण कार्यं कुर्वन्ति।
  • स्वदेशी-विपणे अत्र प्रभावी उपभोक्तावादः प्रचलन् अस्ति।
  • अस्मिन् देशे तकनीकि-आभियान्त्रिकीक्षमताः उपलब्धाः सन्ति तदनु वैज्ञानिक-तकनीकिसंस्थानानां योगदानं वर्तते।
  • वैदेशिकनिवेशकेभ्यः विपणः उद्धटितः वर्तते अयं च सुष्ठुरीत्या विनियमितश्च वर्तते।

जनशक्तिप्रशिक्षणम्

किञ्चन उत्पादनं क्षेत्रं कुशलजनशक्तिं विना न सफलीभवति। अस्मिन्नेव क्रमे सन्तोषजनकमिदं यत् सर्वकारेण कौशलविकासाय नूतनोपायाः कल्पिताः। अनेन निश्चयेनैव व्यवसायान्वेषणार्थं ग्रामात्नगरं प्रति पलायनं विरमिष्यति नगरीनिर्धनानां अधिकं समावेशिविकासश्च सम्भविष्यति। उत्पादनक्षेत्रे दार्ढ्यं विधातुमयं एकः महत्वपूर्णः प्रयासः भविष्यति।

नूतनमन्त्रालयाः

कौशलविकासेन उद्यमितया च राष्ट्रियकौशलविकासे राष्ट्रियनीतौ संशोधनं आरब्धम्। अवधेयं यत् मोदीसर्वकारेण ग्रामविकासमन्त्रालयतत्वावधाने एकः नूतनः कार्यक्रमः समारब्धः। अस्य कार्यक्रमस्य नाम बीजेपीइत्स्य नायक-पण्डितदीनदयाल-उपाध्याय-इत्यस्मिन् अभिधाने अभिहितम्। नूतनप्रशिक्षणकार्यक्रमान्तर्गतं देशान्तर्गतं 1500तः2000प्रशिक्षणकेन्द्राणि स्थापितुं प्रयत्नः सम्पत्स्यते। अस्यां सम्पूर्णपरियोजनायां 2000कोटिरुप्यकाणां व्ययस्य अनुमानं वर्तते। अत्र सार्वजनिक-निजप्रतिभागिता प्रारूपतया सञ्चालयिष्यते।

नूतनप्रशिक्षणकार्यक्रमान्तर्गतं युववर्गाय तेषां कौशलानां प्रशिक्षणं प्रदास्यते येषां विदेशेषु आवश्यकता वर्तते। यान् देशान् वीक्ष्य अयं कार्यक्रमः निर्मितः तेषु स्पेन् अमेरिका जापान रूस फ्रांस् चीन् ब्रिटेन् पश्चिमएशिया च सम्मिलिताः सन्ति। सर्वकारेण प्रतिवर्षं अनुमानतः त्रिलक्षयुवकान् प्रशिक्षयितुं प्रस्तावितः अनेन च 2017ईस्वीयाब्दस्यान्ते 10लक्षग्रामीणयुवकान् लाभान्वितान् कारयितुं अयं कार्यक्रमः विनिर्मितः।

स्रोतः- पत्रसूचनाकार्यालयः (श्रीनिरेन्द्रदेवेन विलिखितम्)

Last Modified : 10/22/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate