অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

राष्ट्रियछात्रवृत्तयः पुरस्कारः च

राष्ट्रियशैक्षणिकानुसन्धानप्रशिक्षणपरिषत्(एनसीइआरटी) मात्रात्मकगुणात्मकशैक्षणिकविकासं प्रोत्साहयति। असमानतां दूरीकर्तुं सर्वेभ्यः छात्रेभ्यः समानशैक्षणिकावसरं प्रदातुं प्रयतते। एनसीईआरटी छात्रेषु शैक्षणिकप्रतिभां राष्ट्रियप्रतिभाखोजयोजनामाध्यमेन प्रकाशयति। इयं कलात्मक-अन्वेषणपूर्णप्रतिभायै चाचानेहरुछात्रवृत्तिमाध्यमेन कलात्मकविशिष्टताम् अपि प्रशंसति।

राष्ट्रियछात्रवृत्तयः

अष्टमकक्षायै राष्ट्रियप्रतिभाखोजपरीक्षा

छात्रवृत्तयः

संचालितपरीक्षायाः आधारे अष्टमकक्षायाः परीक्षायाम् उपविष्टानां छात्राणां प्रत्येकसमूहे एकसहस्रछात्रवृत्तयः प्रदास्यन्ते।

योग्यता

तत्र राज्येषु संघशासितप्रदेशेषु मान्यताप्राप्तविद्यालयस्य अष्टमकक्षायाः अध्येतारः छात्राः संचालितपरीक्षायां भागं ग्रहीतुं योग्याः। अस्मिन् स्थानीयतायाः प्रतिबन्धो नास्ति।

परीक्षायोजना-

अष्टमकक्षायै लिखितपरीक्षायाः स्वरूपमित्थं भविष्यति-

1.मानसिकयोग्यतापरीक्षा रऔ (मैट)

2.विद्वत्तायोग्यतापरीक्षा (सैट)यस्मिन् सामाजिकविज्ञान-विज्ञान-गणितविषयेभ्यः प्रश्नाः प्रष्टुं शक्यन्ते।

द्वितीयचरणे राष्ट्रियस्तरे परीक्षायाम्-

  • मानिसकयोग्यतापरीक्षा (मैट)
  • विद्वत्तायोग्यतापरीक्षा (सैट) यस्मिन् सामाजिकविज्ञान-विज्ञान-गणितविषयेभ्यः प्रश्नाः प्रष्टुं शक्यन्ते।
  • साक्षात्कारः राष्ट्रस्तरीयलिखितपरीक्षायां सफलछात्रा एव साक्षात्काराय आमन्त्र्यन्ते।

राष्ट्रियप्रतिभाखोजयोजना

योग्यता - केन्द्रियविद्यालय-नवोदयविद्यालय-सैनिकस्कूलसहितकेषाञ्चिदपि मान्यताप्राप्तविद्यालयानां दशमकक्षायामध्ययनरताः सर्वे छात्राः तस्मात् राज्यात् यत्र विद्यालयः स्थितः वर्तते, राज्यस्तरीयपरीक्षायां प्रतिभागं ग्रहीतुं योग्याः सन्ति। अस्मिन् स्थानीयतायाः प्रतिबन्धः नास्ति।

आवेदप्रक्रिया - समग्रे देशे दशमकक्षीयाः छात्राः उपर्युक्तायाः परीक्षायाः विषये स्वराज्य-सङ्घशासितप्रदेशसर्वकारेण प्रकाशितसूचनायै समाचारपत्राणि विद्यालयं च पश्येयुः तथा च विज्ञापने वर्णितसूचनानुसारं अग्रेसरभवन्तु।परीक्षा- एनसीईआरटीद्वारासंचाल्यमाने द्विस्तरीयपरीक्षणे आवश्यकसंख्यायां प्रतिनिधीनां नाङ्कनाय राज्यस्तरीयपरीक्षायां द्वौ भागौ भवतः-

भागः 1. मानसिकयोग्यतापरीक्षा (मैच)

भागः2.विद्वत्तायोग्यतापरीक्षा (सैट)

ओलंपियाड्

नेशनलसाईबरओलिंपियाड्

योग्यता - सीबीएसई, आईसीएसई-राज्यशिक्षापरिषत्सम्बद्ध-आङ्ग्लमाध्यमिकविद्यालयेषु तृतीयतःद्वादशकक्षायाम् अध्ययनरताः छात्राः नेशनलसाईबरओलिंपियाड् इत्यस्मिन् भागं प्रतिग्रहीतुं योग्याः। नवमतः द्वादशकक्षावर्गीयाः तादृशाः छात्राः, ये कला-वाणिज्य-विज्ञानेषु स्वभविष्यं निर्मातुम् इच्छन्ति,अस्यां प्रतियोगितायां भागं ग्रहीतुमर्हन्ति। यतोहि अस्मिन् छात्राणां सङ्गणककुशलता परीक्ष्यते।

राष्ट्रियविज्ञआन-ओलम्पियाड्(राष्ट्रिय-साइंस-ओलम्पियाड्)- छात्राणां निबन्धनम्- इयं स्पर्धा तृतीयतः द्वादशकक्षापर्यन्तं अध्ययनरतेभ्यः छात्रेभ्यः वर्तते। तथाच सम्बन्धितविद्यालयेन निर्दिष्टे प्रपत्रे निबन्धनं प्रेषणीयं भवति।

राष्ट्रिय-गणितीय-ओलम्पियाड्(नेशनल-मैथमैटिकल-ओलम्पियाड्)- राष्ट्रियस्तरे गणित-ओलम्पियाड् 1976 तमाद् वर्षतः राष्ट्रियोच्चतरगणिपरिषदः (एनबीएचएम- नेशनलबोर्ड फार हायरमैथमैटिक्स) प्रमुखा गतिविधिः प्रयासश्च अस्ति। अस्याः गतिविधेः मुख्यमुद्देश्यं वर्तते हाईस्कूलतः बालकेषु गणितीयप्रतिभायाः अन्वेषणमिति। एनबीएचएमद्वारा प्रत्येकस्मिन् वर्षे प्रवर्तमाने अन्ताराष्ट्रिय-गणित-ओलम्पियाड्प्रतिस्पर्धायां प्रतिभागं कर्तुं भारतीयप्रतिनिधिसमूहस्य चयनस्य प्रशिक्षणस्य च उत्तरदायित्वं ऊह्यते। अलिम्पियाड्प्रतियोगितायाः आयोजनाय देशः षोडशक्षेत्रेषु विभाजितः। अन्ताराष्ट्रिय-गणित-ओलम्पियाड्प्रतिस्पर्धायां भारतस्य प्रतिभागितायै ओलम्पियाड्कार्यक्रमे निम्नलिखितचरणानि भवन्ति-

प्रथमचरणम्- क्षेत्रीयगणित-ओलम्पियाड् (आरएमओ)-देशस्य विभिन्नक्षेत्रेषु सामान्यतया प्रतिवर्षं सितंबर-दिसम्बरमासयोः प्रथमरविवासरमध्ये आरएमओ आयोज्यते। आरएमओ प्रतिस्पर्धायां प्रतिभागाय सर्वेषां विद्यालयानां एकादशकक्षीयाः छात्राः अर्हाः सन्ति। अस्यां त्रिहोरात्मिका परीक्षा आयोज्यते यस्यां षट् सप्त वा प्रश्नाः भवन्ति।

द्वितीयं चरणम्- भारतीयराष्ट्रियगणित-ओलम्पियाड् (आइएनएमओ)- आइएनएमओ प्रतिवर्षं फरवरीमासस्य प्रथमरविवासरे विविधक्षेत्राणां केन्द्रेषु भवति। आरएमओइत्यस्याधारे विविधक्षेत्राणां चयनितछात्रा एव आइएनएमओ-प्रतिस्पर्धायां प्रतिभागाय अर्हाः भवन्ति। आइएनएमओ चतुर्होरात्मिका इयं लिखितपरीक्षा। प्रश्नपत्रं च केन्द्रियस्तरे निर्मीयते समग्रे देशे च समानं भवति। आइएनएमओ-प्रतिस्पर्धायां सर्वोच्चस्थानम् अधिग्रहीतानां छात्राणां कृते प्रमाणपत्राणि वितीर्यन्ते।–

तृतीयं चरणम्- अन्ताराष्ट्रियगणित-ओलम्पियाड् प्रशिक्षणशिविरम् (आइएमोटीसी) यूएनएमओ-प्रमाणपत्रधारकाः प्रतिवर्षं मईजूनमासयोः -आयोज्यमाणे मासीयप्रशिक्षणशिविरे आमन्त्र्यन्ते। एतदतिरिक्तं गतवर्षस्य तादृशाः आइएनएमओ-प्रमाणपत्रधारकाः यैः पूर्णवर्षं दूरस्थशिक्षा सन्तोषपूर्वकं सम्पन्ना, ते द्वितीयचक्रस्य प्रशिक्षणार्थं पुनः आमन्त्र्यन्ते। शिविरावधौ आयोजितचयनपरीक्षायां अङ्कान् आधृत्य कनीय-वरीयसमूहयोः सर्वश्रेष्ठानां षड् छात्राणां चयनम् अन्तर्राष्ट्रियगणित-ओलम्पियाड्प्रतिस्पर्धायै भारतस्य प्रतिनिधत्वेन क्रियते।

चतुर्थं चरणम्- अन्तरराष्ट्रियगणितओलम्पियाड् (आइएमओ)-शिविरस्यान्ते चयनितषड्सदस्यीयसमूहः एकेन नेतृणा एकेन च उपनेतृणा सह आइएमओ-प्रतिस्पर्धायां भारतस्य प्रतिनिधित्वं करोति। या सामान्यतया जुलाईमासे विविधेषु देशेषु आयोज्यते। आइएमओ सार्द्धचत्वारिहोरात्मकं लिखितपरीक्षाद्यम् आयोजयति। या च द्वयो दिवसयोः न्यूनातिन्यूनं एकदिवसान्तरालात् सम्पद्यते। आइएमओस्थानं गमनागमने प्रायः द्विसप्ताहात्मकः समयः अपेक्ष्यते। आइएमओ-प्रतिस्पर्धायां स्वर्णरजतकांस्यपदक-विजेतारः भारतीयसमूहस्य छात्राः अग्रिमवर्षस्य शिविरान्ते आयोजितौपचारिकसमारोहे एनबीएचएमद्वारा क्रमशः पञ्चसहस्र-चतुःसहस्र-त्रिसहस्ररूप्यकैः पुरस्क्रियन्ते। मानवसंसाधनविकासमन्त्रालयः अष्टसदस्यीयभारतीयप्रतिनिधिमण्डलस्य विदेशयात्रायाः व्ययं वहति। अपरतः एनबीएचएम(डीएई) देशे सर्वेषां कार्यक्रमाणाम् अन्तर्राष्ट्रियप्रतिभागितायाश्च सम्बन्धिव्ययं वहति। गणित-ओलम्पियाड्प्रतिस्पर्धायै पाठ्यक्रमः- गणित-ओलम्पियाड्प्रतिस्पर्धायाः पाठ्यक्रमत्वेन (क्षेत्रीय-राष्ट्रिय-अन्ताराष्ट्रिय) प्री-डिग्रीमहाविद्यालयीयगणितं वर्तते। जटिलतायाः स्तरः आरएमओतः आइएनएमओ पुनः आइएमओपर्यन्तं भवति।

गणित-ओलम्पियाड्प्रतिस्पर्धायै कानिचन अनुशंसितपुस्तकानि सन्ति-

  • मैथमैटिक्स ओलम्पियाड् प्राइमर, वी.कृष्णामूर्ति, सी.आर.प्रानेसचर, के.एन.रंगनाथन, बी.जे. वेंकटचला च , द्वारा इंटरलाईन पब्लिशिंग प्राईवेट लिमिटेड् बेंगलुरु
  • चैलेंज एंड थ्रिल ऑफ प्रीकालेज मैथेमेटिक्स, वी.कृष्णामूर्ति, सी.आर.प्रानेसचर, के.एन.रंगनाथन, बी.जे.वेंकटचला च, द्वारा न्यु एज इन्टरनेशनल पब्लिशर्स,नवदेहली।

गणित-ओलम्पियाड्परीक्षायोजनायाः समग्रसूचनायै अत्र क्लिक् कुर्वन्तु।

राष्ट्रिययोग्यताछात्रवृत्तियोजना

क्रियान्वयनम्

राष्ट्रियछात्रवृत्तियोजनायाः आरम्भः 1961-62 सत्रात् अभवत्। अस्याः योजनायाः उद्देश्यं निर्धनमेधाविछात्राणां मैट्रिककक्षोपरान्तम् अध्ययनार्थं छात्रवृत्तिप्रदानमस्ति। तस्मात् निर्धनतायामपि ते अध्ययने प्रवृत्ताः स्युः। ग्रामीणक्षेत्रेषु षष्टमतः द्वादशकक्षायाः मेधाविनां छात्राणां कृते इयं छात्रवृत्तियोजना 1971-72तमादब्दात् आरब्धा। यस्योद्देश्यं अध्ययनाय समानावसराणामुपलब्धिः वर्तते। नवमयोजनां यावत् एताः योजनाः केन्द्रद्वारा प्रायोजितयोजनारूपत्वेन प्रवर्तिताः आसन्। इमां प्रवर्तयितुं विभागेन एताः समाहृत्य राष्ट्रिययोग्यताछात्रवृत्तियोजना इति निर्मिता। इयं संशोधितयोजना अर्हतामानक-छात्रवृत्तिरनुपातादिषु परिवर्तनस्य निर्धारणं करोति।

उद्देश्यम्

अस्यायोजनायाः उद्देश्यमस्ति- नवम-दशमकक्षायां अध्ययनरतेभ्यः ग्रामीणक्षेत्राणां योग्यछात्रेभ्यः मैट्रिकतः स्नातकोत्तरपर्यन्तं शासकीयविद्यालय-कालेज-विश्वविद्यालयेषु वित्तीयसहायताप्रदानम्।

विषयक्षेत्रम्

नवमदशमकक्षीयछात्रवृत्तयः ग्रामीणक्षेत्राणां विद्यालय-शासकीयविद्यालय-विकासखण्डस्थितविद्यालयेषु अध्ययनरतेभ्यः छात्रभ्यः उपलब्धाः सन्ति। छात्रवृत्तिः तेनैव प्रादेशिकसर्वकारेण केन्द्र्शासितप्रदेशसर्वकारेण वा दीयते यत्रत्यः छात्रः निवासी भवति अथवा यत्र तेन छात्रेण परीक्षा उत्तीर्णा, यस्मिन्नाधारे तस्मै छात्रवृत्तिर्दीयते। ग्रामीणक्षेत्रेषु विद्यालयानां परिज्ञानं राज्यशासनेन केन्द्रशासितप्रदेशस्य प्रशासनद्वारा वा भविष्यति।

क्षेत्रं योग्यता च

नवमदशमकक्षीयछात्रवृत्तयः केवलं ग्रामीणक्षेत्राणां शासकीयविद्यालयेषु अध्ययनरतेभ्यः विद्यार्थिभ्यः उपलब्धाः भविष्यन्ति। ये छात्राः निम्नलिखितवर्गेषु विज्ञान-वाणिज्यविषययोः कुलयोगतया 60प्रतिशतम् अङ्कं मानिविकीवर्गे 55प्रतिशतम् अङ्कं तदधिकं वा प्राप्तवन्तः, ते एव अन्याभिसन्ध्यनुसारं राष्ट्रियोग्यताछात्रवृत्तियोजनायै पात्रत्वेन स्वीकृताः भविष्यन्ति—

  • 10कक्षा- हाईस्कूल/मैट्रिक/10+2 स्तरस्नातक विद्याथिर्भ्यः छात्रवृत्तिप्रदातुम्
  • 10+2प्रणाल्यनुसारं सीनियससेकेंडरीबोर्डपरीक्षायाः द्वादशं स्नातकं वा, तदनुवर्तिपाठ्यक्रमाणां प्रथमवर्षे छात्रवृत्तिप्रदानाय कोऽपि छात्र यः राष्ट्रिययोग्यताछात्रवृत्तिभाक् अस्ति अध्ययनार्थम् अन्यां कामपि छात्रवृत्तिं न स्वीकर्तुं शक्नोति। ये छात्राः व्यवसायरताः सन्ति ते एतस्यै छात्रवृत्त्यै अनर्हाः सन्ति।

अस्यां योजनायां छात्रवृत्तिप्राप्त्यवधौ विद्यार्थी यस्मिन् संस्थाने अध्ययरतः भवेत् तत्र शुल्के लाभः प्राप्स्यति। अनेन सह ते छात्राः यैः छात्रवृत्तिरावेदनात् एकवर्षपूर्वम् अर्हतादायिनिपरीक्षा उत्तीर्णा कृता स्यात्, ते अस्यै अनर्हाः भविष्यन्ति।

अभिभावकानाम् आयसीमा

अस्यां योजनायां सर्वासु श्रेणिषु छात्रवृत्तिः केवलं तस्मै एव छात्राय प्रदास्यते, यस्य अभिभावकस्य समस्तस्रोतृभ्यः प्राप्तवार्षिकः आयः एकलक्षरूप्यकात् अधिकं न स्यात्।

सम्बन्धितस्रोतःएनसीईआरटी ।

Last Modified : 2/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate