অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

बाल-अधिकारः संरक्षणञ्च

बालसंरक्षण-आयोगस्य दायित्वम्-

बालसंरक्षण-आयोगस्य निम्नलिखितम् उत्तरदायित्वं वर्तते-

  • कस्याश्चिद्विधेरधीनं बालानाम् अधिकारसंरक्षणार्थं निर्देशितोपायानां निरीक्षणं परीक्षणं च, तस्मात् तेषां प्रभावीकार्यान्वयनार्थं वर्तमानकेन्द्रसर्वकाराय अनुशंसा।
  • तादृशानां कारकानां परीक्षणं ये आतङ्कवाद-सांप्रदायिकहिंसा-विवाद-प्राकृतिकापदा-गृहीयहिंसा-एचआईवी-एड्स-तस्करी-दुर्व्यवहार-यातना-शोषण-वेश्यावृत्ति-अश्लीलसाहित्यप्रभावितबालानां प्रसन्नतायाः अधिकारम् अवसरं च न्यूनीकुर्वन्ति। तदर्थं च उपचारात्मकोपायानाम् अनुशंसा।
  • एतादृशाः संकटग्रस्त-वञ्चितबालकाः ये परिवारं विना वसन्ति, बन्दीनां बालकैः सम्बन्धितविषयेषु विचारः तदर्थं च उपचारात्मकोपायानाम् अनुशंसा।
  • समाजस्य विविधवर्गेषु बाल-अधिकार-साक्षरतायाः प्रसारीकरणम्, बालेभ्यः उपलब्धसुरक्षोपायानां विषये जागरुकतासंचारः।
  • केन्द्रसर्वकार-राज्यसर्वकार-अन्यप्राधिकारिप्रभृतिभिः केनचिदपि संस्थानेन प्रचाल्यमानं सामाजिकसंस्थानं यत्र बालकाः बन्दित्वे, उपचारोद्देश्यात्, सुधाराय संरक्षणाय वा स्थापिताः। बालसुधारगृहे अन्येपि कस्मिंश्चित्स्थाने यत्र बालकानां निवासः स्यात् तत्सम्बद्धसंस्थायाः निरीक्षणकार्यम्।

बाल-अधिकाराणाम् उल्लङ्घनस्य सन्नियच्छनम्

बालकानाम् अधिकाराणाम् उल्लङ्घनं प्रत्यवेक्ष्य एतादृशेषु विषयेषु प्रक्रियाया आरम्भः निम्नविषयेषु च स्वतःसंज्ञानम्,यत्र-

  • बाल-अधिकाराणाम् उल्लङ्घनम् उपेक्षा वा भवति।
  • बालकानां विकास-संरक्षणाय निर्मितविधीनां क्रियान्वयनं न कृतं स्यात्।
  • बालकानां कल्याणाय तस्मै सुरक्षाप्रदानाय प्रदत्तनीतिनिर्णय-दिशानिर्देश-निर्देशानाम् अनुपालनं न कृतं स्यात्।
  • यत्र एते विषयाः पूर्णप्राधिकारितया प्रस्तुतीकृताः स्युः।
  • बाल-अधिकारं प्रभावीकर्तुं अन्ताराष्ट्रियसन्धि-अन्यान्ताराष्ट्रियोपकरणानाम् आवधिकसमीक्षां वर्तमाननीतिकार्यक्रम-अन्यगतिविधीनाम् अध्ययनं कृत्वा बालकानां हिताय प्रभावितया क्रियान्वयनाय अनुशंसाकरणम्।
  • बाल-अधिकारे निर्मितानाम् अभिसमयानाम् अनुपालनानां मूल्याङ्कनाय बाल-अधिकारसम्बद्ध- वर्तमानविधि-नीति-प्रचलनव्यवहारस्य विश्लेषणं मूल्याङ्कनं च। नीतेश्च कस्यचिदपि पक्षस्य पुनरावलोकनार्थं प्रतिवेदनप्रस्तुतीकरणं यस्य प्रभावः बालेषु आपतेत्। तस्य समाधानाय च नूतननियमनिर्माणस्य अनुशंसा।
  • सर्वकारीयविभाग-संस्थासु च कार्यावधौ स्थले च बालकानां विचाराणां कृते सम्मानं प्रोत्साहनं पूर्णावधानञ्च।
  • बाल-अधिकारेषु सूचनायाः सर्जनं तस्याः प्रचारः प्रसारश्च।
  • बालकसम्बद्धप्रदत्तानां विश्लेषणं सङ्कलनञ्च।
  • बालकानां विद्यालयीयपाठ्यक्रम-शिक्षकप्रशिक्षणपाठ्यक्रम-बालनिरीक्षणप्रशिक्षणकर्मिणां प्रशिक्षणपुस्तिकायां बाल-अधिकाराणां प्रोत्साहनं तस्य संस्थापनञ्च।

स्रोतः पोर्टलविषयसामग्रीसमूहः

Last Modified : 11/20/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate