অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

चलवाणीसेवाः- आदानप्रदानयोः लोकप्रियो माध्यमः

चलवाणी वित्तसेवा च (बैंकिंगसेवा च)

भारते वित्तक्षेत्रे (बैंकिंग) वित्तसेवानां कृते एसएमएस-आधारितप्रश्नादिसुविधाः विस्तारयन् सम्प्रति रिजर्वबैंकप्रदत्तदिशानिर्देशानुसारं चलवाण्या मुद्रास्थानान्तरणस्यापि (एममनी एमरुपी वा इत्यस्मिन् रूपे) सुविधा आवश्यकाभिसन्धिभिः सह प्रदीयते। चलवाण्याः आदिनं प्रवर्धितामुपयोगिताम् विमृशन्तः वित्तकोशाः सम्प्रति चलवाण्या रेल-आरक्षण-ऋणसम्बन्धिसूचना-संचयपंजिका(बचतएकाउंट)सूचनाभिः सह विविधवित्तीययोजनानां संसूचनाः उपभोक्तृभ्यः प्रदातुं नूतनपंजिका(खाता)उद्घाटनावसरे अनिवार्यतः चलवाणीसंख्यापंजीकरणार्थं निवेदयन्ति। चलवाण्या चलवाणीरिचार्जप्रभृतिसेवाः शनैःशनैः लोकप्रियतामापन्नाः सन्ति। केचन वित्तकोशाः विविधमूल्यसंवर्धितसेवाभिस्सह निरन्तरयात्रायै विविधसुविधाः प्रदाय नैकलाभावसराः उपभोक्तृभ्यः प्रस्तुवन्ति। अपि च वित्तकोशेन निस्तारणाय विविधपत्रकाणां (कार्ड) प्रयोगप्रोत्साहनार्थं पुरस्कारत्वेन केचन अङ्काः प्रदीयन्ते, ते च निर्धारितविविधक्रयबिन्दुषु मुद्रीक्रियन्ते। एतदर्थं सूचना पंजीकृतचलवाण्या एव लभते। एवमेव चलवाण्या प्रथमतया संचितसेवायाः आरम्भावसरे केचनवित्तकोशाः उपहारत्वेन निस्तारणीय अङ्कप्रदानाय अवसरं ददति। अवधेयं यत् उपरोक्तसुविधालाभाय वित्तकोशनिर्दिष्टदिशानिर्देशोपि पालनीयः।

चलवाणीवित्तसेवा प्रमुखतः ग्राहकेभ्यः गृहे एव स्वनिधितन्निक्षेपनिकासादिसम्बन्धिसुविधाः प्रयच्छति। सेवेयं प्रदातुं विविधवित्तकोषैर्निश्चितं शुल्कं न समानम्। केचन इमां सेवां निश्शुल्कं ग्राहकेभ्यः यच्छन्ति। केचन च तदर्थं वार्षिकं शुल्कं स्वीकुर्वन्ति।परन्तु चलवाणीवित्तसेवायाः उपभोक्तृत्वे सति चलवाणीसेवाप्रदातृणा आदत्तसेवाकरस्य परिशोधः (भुगतान) ग्राहकैरेव क्रियते। अनेन सह वित्तकोषाः तत्स्वीकृतराशौ चलवाण्या मुद्राहस्तान्तरणे न किञ्चनशुल्कमधिगृहणन्ति। सन्दर्भेस्मिन् अवधेयं यत् वित्तकोषनिर्देशितनियमान् सम्यक्तया अनुपालनान्तरमेव इयं सेवा उपभोक्तव्या।

लघुसन्देशवित्तसेवा (एसएमएसबैंकिंग)

चलवाण्यां ‘बीप’ ध्वनिर्जातायां भवान् सद्य एव सतर्को जातः। तस्मिन्नागतसन्देशाद् भवान् ज्ञातवान् यत् भवद्वेतनप्राप्तेः सन्देशोयं भवद्वित्तकोशात् प्रेषितः।भवान् च आश्वस्तः। तदर्थं पुरातनरीतिः इव भवता न क्वचित् पंजिकायां हस्ताक्षरः कृतः। इदानीं चलवाण्यां भवद्वेतनसन्देशः डिजिटलसंसूचनारूपतया संङगृहीतः। एवम् चलवाण्याः प्रचारे परिवर्तितं जातं अद्यतन वित्तसेवायाः स्वरूपं चलवाणीवित्तसेवासुविधाश्चापि परिवर्तिताः। एसएमएसवित्तसेवासुविधा ग्राहकेषु अतीव लोकप्रिया प्रपन्नास्ति सम्प्रति। माध्यमेनानेन भवान् स्वपंजिकां (खाता) अहर्निशं निरीक्षणाय समर्थः अस्ति। अवैधानिकरीत्या च भवत्पंजिकापहर्तृन् विज्ञाय अनया सुविधया भवान् वित्तकोषं सूच्य सुरक्षितः भवितुमर्हति। अपि च रात्रिं वा दिवं वा कदापि वित्तकोशप्रदत्तसहायतासंख्यायां कॉलद्वारा अथवा लघुसन्देशसंङ्केतं प्रति सन्देशं प्रेष्य स्वपंजिका(खाता)सम्बन्धिसूचनामाप्तुं शक्नुवन्ति। एसएमएसवित्तसेवायां प्रदेयाः सुविधास्सन्ति-

  • स्वचालितसतर्कता (ऑटो-अलर्ट) - अस्मिन् पत्रक(कार्ड)-अन्तर्जालीयवित्तसेवा (इन्टरनेट्बैंकिंग)-चलवाणीवित्तसेवा(मोबाइलबैंकिंग)-शाखा-देयादेश(चेक)प्रभृतिमाध्यमैः कृतमुद्राहस्तान्तरणस्य संसूचना सतर्कतासन्देश (एलर्टएसएमएस) सुविधया लभते। सुविधेयं वित्तकोशान्निर्धारितराशेरनुसारमेव लभते।
  • प्राप्यकशोधसूचना(बिलभुगतान की सूचना)यदि भवता स्वचलवाणीसंकेतं प्राप्यकपरिशोधनाय (बिलभुगतान) पंजीकृतम् तर्हि निर्धारिततिथिपूर्वमेव तन्निक्षेपसम्बन्धिसूचना (भुगतानसम्बन्धिसूचना) सन्देशसतर्कतासुविधया लभते।
  • अन्यसूचनाः - अस्यां संचितराशि-गतत्रीणिमुद्राहस्तान्तर-समीपस्थएटीएम- ग्राहकपरिचय-देयादेशपुस्तिकाया आवेदनप्रभृतयः अपि सूचनाः अनयैव सेवया आप्यन्ते।

लघुसन्देशवित्तीयसेवायाः लाभः-

  • सुरक्षा- निर्धारितक्रेडिटराशिः डेबिटराशिः च इत्यनयोः आदानप्रदाने (एसएमएस) सन्देशात् सूचना लभते।
  • सुविधापूर्णा
  • नवीनतमसूचना

शुल्कः अवधेयाः तथ्याश्च-

चलवाण्यां प्राग्निर्दिष्टां सुविधां प्रदातुं सर्वे वित्तकोषाः कञ्चनशुल्कम् आरोपयन्ति। अतः सुविधायाः उपभोगात् प्राग् आरोपितशुल्कस्य सम्पूर्णं विवरणं निकटस्थवित्तकोशात् अवश्यं ज्ञेयम्। अपि च पंजिका(खाता)उद्घाटनसमये अस्यै सुविधायै पंजीकरणावसरे प्रदत्तचलवाणीसंकेतस्य परिवर्तिते सति अवश्यमेव वित्तकोषः सूचनीयः।

दूरभाषवित्तसेवा(फोनबैंकिंग्)-

प्रायशः सर्वे एव वित्तकोषाः फोनबैंकिंगसम्बद्धाः सुविधाः प्रददति। एतदर्थं वित्तकोषप्रदत्तनिश्शुल्कसहायतासंकेते उपभोक्ताजङ्गमवाणीसंकेतस्य चलवाणीसंकेतस्य वा पंजीकरणम् आवश्यकं वर्तते। केचनवित्तकोषाः अप्रवासिभारतीयेभ्योपि इमां सुविधां प्रयच्छन्ति। अस्यां सुविधायां उपभोक्तुः जङ्गवाणी चलवाणी वा अहर्निश-आपातकालीनसेवया सम्बद्धा भवति। क्रेडिटकार्ड्-डेबिटकार्ड् इत्यनयोः एकस्य वा लुप्ते सति अनया सेवया उपभोक्त्रा प्रदत्तसूचनया पत्रकसेवा अस्थायीरूपतया अवरुद्धयते।फोनबैंकिंगद्वारा अहर्निशं टेलीबैंकिंगसुविधा अपि प्रदीयते। अनया सम्बद्धाः अन्याः सुविधाः सन्ति- उत्पादसेवासम्बन्धिसंसूचना, पंजिका(खाता)संचितराशिः राशिनिक्षेपनिकाससूचना, वित्तकोषशाखाएटीएमसम्बन्धिसूचना, देयादेशपुस्तिकायाः आवेदनम् डेबिटकार्ड-क्रेडिकार्डसम्बन्धिसूचनेत्यादयः।

चलवाणी-वित्तसेवा (बैंकिंग)-एप्लीकेशन्(बैंकिंग एप्स)-

नैकविधाः नूतनतकनीकयः आदिनं जायन्ते प्रवर्धन्ते च। चलवाण्या निरन्तरविकासात् तत्प्रदत्तविविधसेवालाभाय आवश्यकमिदं यत् भवच्चलवाणी अपि मोबाइलएप्ससुविधां वोढुं समर्था भवतु इति। एतदर्थं मोबाइलएप्स न केवलं एड्रायड् क्रमानुदेशाधृत्य (सॉफ्टवेयर्-आधारितम्) प्रत्युत् आईफोन्-ब्लैकबेरी-जावाक्रमानुदेशमाधृत्यापि निर्मितास्सन्ति यान् उपभोक्ता स्वचलवाण्या सम्बद्धतकनीकेरनुसारम् अधोभारणं (डाउनलोड्) संरक्षणम् (इन्सटॉल) च कर्तुं शक्यते। वस्तुतः एंड्राइड् इत्यस्य आधारः मुक्तप्रभवः अस्ति तेन अनुप्रयोगनिर्माणं सहजरूपेण भवति । अनेन कारणेन चलवाण्यनुप्रयोगस्य निर्माणस्याधारः एंड्राइड् भवति ।चलवाणीशासने मुख्यतया चलवाणीमाध्यमेन पूर्वप्रदत्तसेवाः प्रसारयितुमेव प्रयासो विधीयते। निकटभूते एव रेलटिकट-आरक्षणाय एम-रिजर्वेशन-एप्लीकेशन् अतीव लोकप्रियं जातम्।

सर्वे वित्तकोषाः स्वस्य उपभोक्तृन् आकृष्टुं साधारणयूजरफेस् उपयोजयन्ति। तेषां स्वत्वं (दावा) वर्तते यत् तत्प्रदत्तसुविधाः विकसितमोबाइलएप्स् च उपभोक्तृसहायकाः सुविधाजनकाः अपि च सुरक्षिताः सन्ति। तदर्थम् वित्तकोषस्य अन्तर्जालसंकेतं प्रविश्य तेषां अधोभारणं (डाउनलोड) संरक्षणं च अपेक्षितम् इत्येव आवश्यकम्। तत्सक्रियानन्तरं मोबाइलएप्स्तः सूचनासंप्रेषणम् आरभ्यते। न केवलमिदमेव प्रत्युत् कालान्तरेषु एप्स् विकसितेषु सत्सु उपभोक्तुः चलवाणौ संरक्षितं एप्स् अपि स्वत एव संपरिवर्धते।

सुविधाः-

  • पंजिका(खाता)सम्बन्धिसुविधा- मुद्राहस्तान्तरणम्,देयादेशसम्बन्धिसूचना, तत्कालमुद्रास्थानान्तरणसुविधा आदि।

  • क्रेडिटपत्रक(कार्ड)सम्बद्धाः सुविधाः

  • संचितराशेः (बैलेंस) सूचना

  • क्रेडिटपत्रकस्य प्राप्यकनिस्तारसुविधा (बिलभुगतान)

  • पूर्वनिक्षेप(भुगतान)सूचना

  • निक्षेपदिनाङ्कस्य संसूचना

  • ऋणपंजिका-(लोन)अमूर्तीकृतपंजिका(डीमैटखाता) -इत्यनयोः सम्बद्धाः सूचना

  • चलवाणीरिचार्जसुविधा

  • चलचित्र-बसयानटिकट-आरक्षणम्

  • डीटीएचरिचार्जसुविधा

  • क्रयः

  • बिलपरिशोधः

  • विविधसुविधानां आकलार्थं सुविधा यथा- शाखासूचना-

स्रोतः-पोर्टल्-विषयसामग्रीसमूहः

वित्तकोषप्रदत्तसेवायां तदधिकसूचनायै सम्बन्धितसंसाधने निर्दिष्टअन्तर्जालसंकेतं प्रविशतु-

सम्बन्धितं संसाधनम्-

Last Modified : 2/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate