অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ई-शासनम्

  • e-governance image

    भारते ई-शासनस्य आन्दोलनम्

    भारते ई-शासनः प्रारम्भात् इदानीम् नवकाले प्रविशति । शासनः सार्वजनिकसेवानां विभिन्नकेन्द्रात् तकनीकमाध्यमेन नियतकाले जनानां समीपे महत्त्वपूर्णसहयोगिरूपेण कार्यं निर्वहति । राष्ट्रीयस्तरे राज्यस्तरे च ई-शासनस्य उपयोगिताविषये जागरूकतायाः आवश्यकता वर्तते ।

  • e-governance image

    सम्प्रदानसेवाकेन्द्रस्य संचालकानां सशक्तीकरणम्

    भारते ग्रामीणपरिवेशे । भारत-विकास-पहल-सम्प्रदानसेवाकेन्द्रस्य संचालकानां क्षमतानिर्माणार्थं ज्ञानसम्प्रदानार्थं तद्वैशिष्ट्यं च ज्ञातुं आवश्यकमञ्चः प्रयच्छति।

परिवर्तमाना सेवावितरण प्रक्रिया

भारते ई-शासनम् उत्तमशासनस्य पर्यायः जायमानः वर्तते । केन्द्रसर्वकारस्य राज्यसर्वकारस्य विविधाः योजनाः न केवलं नागरेभ्यः व्यवसायिभ्यः सर्वकारसङ्घठनेभ्यो वा सूचनामाध्यमेन यन्त्रतन्त्रादिमाध्यमेन च सेवां प्रददति अपि तु समाजस्य सर्वेभ्यः अपि वर्गेभ्यः प्रददद्वर्तते । अमुष्मिन्नेवोद्यमे २००६ तमे वर्षे समारब्धया राष्ट्रिय-ई-शासनयोजनाङ्गतया सम्पूर्णे भारतवर्षे प्रजासेवाकेन्द्राणि (CSC) संस्थापितानि । इमानि केन्द्राणि लौकिकान् उपसर्प्य विविधाः सेवाः कल्पयन्ति येन प्रजाः लभान्विता भवन्ति । ३१ मार्च २०१४ दिनाङ्कं यावत् १,३३,८४७ प्रजासेवाकेन्द्राणि भारतस्य सर्वेषु प्रान्तेषु विविधैः नामभिः सेवां प्रदातुं समारब्धवन्तः ।सूचना एवं प्रसारणतन्त्रम् (ICT) एषु दिनेषु एधमानं दृश्यते । तस्मात् भारतसर्वकारोऽपि तस्य लाभं स्वीचिकीर्षन् तस्मिन्नेव पथि पदं निदधति । तत्रापि प्रामुख्येन प्रजासेवाकेन्द्रमाध्यमेन । भारतीयविकासद्वारवर्त्मा (InDG) इत्युपक्रमः लौकिकेभ्यः स्वद्वारवर्त्मनि (Gateway) विषयानुक्रमणिका, सेवाविवरणं इत्यादीन् विविधासु भाषासु प्रदर्श्य समेषां लौकिकानां जीवने परिवर्तनं जनयति ।.

विकासपीडिया इत्यस्य प्रवेशद्वारस्य(Portal) ई-शासनम् इति भागस्य प्रधानं लक्ष्यं भवति सद्यः जायमानस्य ई-शासनस्पन्दस्य साहय्यम् । तस्मिन् कर्मणि ई-शासनम् प्रजाभ्यः अन्तर्जालनागरसेवामाध्यमेन (online citizen services) आशु वार्तासन्देशसूचनादीन् प्रदाय, राज्येषु ई-शासनम् आरभ्य, अन्तर्जालवैधसेवाः (online legal services) प्रदाय, मोबाईलशासनेन च सूचनाधिकारविषयेषु ज्ञानं प्रदाय तान् सहकर्तुमिच्छति । येन सम्पूर्णे भारतवर्षे ई-शासनम् इति प्रक्रिया अभिवर्धिष्यते । ग्राम्योद्योगस्य अभिवृद्धेः महत्त्वं मनसि निधाय विकासपीडियायाः मुख्यपुटे (Portal) ग्राम्योद्योगविभागः (VLE Corner) अभिनिविष्टः यत्र तत्सम्बद्धाः विविधाः सूचनाः, सामग्रयः चोपलभ्यन्ते । अयं विभागः स्वाभिप्रायप्रकटनाय कश्चन उत्तमः मञ्चः अपि भवति यत्र ग्राम्योद्योगी कश्चित् स्वाभीष्टभाषायां स्वाभिप्रायं प्रकटयितुम् अर्हति ।.

भारते ई-शासनम्

अस्मिन् विभागे राष्ट्रिय-ईशासनयोजनायाः तदुपक्रमाणां साधनसम्पत्तीनां राज्यस्तरे विविधानाम् ई-शासनोपक्रमाणाञ्च विवरणमुपलभ्यते ।.

सूचनाधिकाराधिनियमः (Right of Information Act,2015)

सूचनाधिकाराधिनियमः-२००५ (RTI) भारतसांसदस्य कश्चन अधिनियमः । अस्मिन् अधिनियमे अधिकारस्य विवरणम् तदुपयोगस्य प्रक्रिया आनेदनसोपानानि सम्पर्कविवरणं प्रायः पृच्छ्यमानानां प्रश्नानां च विवरणमुपलभ्यते ।.

अन्तर्जाले सम्पृक्त(online) ई-शासनसेवाः

अस्मिन् विभागे सम्पृक्तप्रजासेवानां (Online Citizen Services) तत्सम्बद्धानां विविधानां सम्पर्कमाध्यमानां च परिचयपुरस्सरं विवरणं दीयते .

ग्रम्योद्योगापेक्षित साधनसम्पत्तयः

अस्मिन् विभागे प्रजासेवाकेन्द्रविवरणानि तदपेक्षितसम्पर्कसङ्केताः सम्बद्धाः सेवाश्च उपलभ्यन्ते ।.

चलशासनम् (Mobile)

अयं विभागः भारते प्रवर्धमानस्य मोबाईल्शासनस्य/चलशासनस्य विवरणानि तदपेक्षितसम्पर्कसङ्केतान् च सपरिचयं प्रददाति ।.

भारतीय न्याय सेवा

अयं विभागः सम्पृक्तवैधसेवोपक्रमाणां (online legal services) तत्सम्बद्धसम्पर्कसङ्केतानां विवरणं प्रददाति ।.

Last Modified : 12/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate