অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

बीजम्- अस्मिन् सम्पुटे बीजोपचारविषयः प्रामुख्येन प्रस्तुतः।

पृष्ठम्- बीजस्य महत्त्वम्

कृषिकार्ये बीजस्य प्राथमिकतां प्रदर्शयन् भागेऽस्मिन् तस्य महत्त्वं ख्यापितम्। वर्णकुञ्चिका- बीजस्य महत्त्वम्- अशुद्धबीजम्, बीजस्य महत्त्वम्- कृषि-उत्पादनम्, बीजस्य महत्त्वम्- प्रगुणनस्य श्रेणयः, बीजस्य महत्त्वम्- प्रजनकबीजम्, बीजस्य महत्त्वम्- प्रमाणितबीजम्, बीजस्य महत्त्वम्- भारतीयकृषि-अनुसन्धानपरिषद्, बीजस्य महत्त्वम्- सामान्यबीजम्।

भारतवर्षः कृषिप्रधानदेशः वर्तते। कृषिश्च तस्य अर्थव्यवस्थायां मेरुरिव राजते। अस्माकं देशे प्रदेशे च आजीविकायाः मुख्यं साधनं कृषिः वर्तते। सर्वदा अद्यापि च कृष्युत्पादने बीजानां भूमिका अत्यधिकं महत्त्वं भजते। बीजं कृषेः मूलं वर्तते। अतः उत्तमगुणवद्बीजेभ्यः अत्युत्कृष्टं सस्योत्पादनं भवति।

अशुद्धबीजम्

कृषकबान्धवः जानन्ति यत् उत्तमगुणयुक्तं बीजं सामान्यबीजानामपेक्षया 20-25 प्रतिशतम् अधिकं सस्यमुत्पादयति। अतः शुद्धं स्वस्थं च प्रमाणितं बीजम् उत्तमसस्योत्पादनस्य मूलं भवति। प्रमाणितबीजानामुपयोगात् एकतः उत्तमसस्यं प्राप्यते, अपरत्र समयस्य धनस्य च सञ्चयो भवति। कृषकबान्धवः यदि अशुद्धबीजानि वपन्ति कर्षन्ति च तस्मात्तदा उत्तमसस्यावाप्तिर्न भवति, नैव आपणे उत्तमविक्रयमूल्यमेव लभते। अशुद्धबीजवपनात् एकतः उत्पादनं न्यूनं भवति अपरतः अशुद्धबीजत्वात् भविष्ये उत्तमबीजानाम् प्राप्तिरपि न भवति प्रत्युत् अशुद्धबीजस्य कारणात् क्षेत्रे शस्यनाशकतृणोद्भवात् नीदानियन्त्रणे अपव्ययः, अन्ते च उप्तस्य सस्य आपणिकविक्रयमूल्यमपि न्यूनं लभते तस्मात् च कृषकाः स्वसस्यैः उचितं लाभं नाप्नुवन्ति। यदि कृषकबान्धवाः अनावश्यकव्ययं न्यूनीकर्तुम् अधिकमुत्पादयितुम् अधिकम् धनमर्जयितुं च इच्छेयुः तर्हि तैः सस्यानां प्रमाणितबीजानामुत्पादनम् उपयोगः च करणीयम्।

बीजस्य महत्त्वपूर्णं योगदानम्

कृष्युत्पादने बीजस्य महत्वपूर्णं योगदानं वर्तते। एकतः यथा वपिष्यति तदनुरूपमेव कर्षणं भवेत् इत्युक्तिः कृषकैरवगन्तव्यम्। अतः उत्तमश्रेण्याः बीजानामुत्पादनम् आवश्यकं वर्तते। अपरतः सर्वगुणयुक्तानां बीजानामभावः भवति। अतः बीजोत्पादनं व्यवसायत्वेन अङ्गीकृत्य कृषकाः स्वस्य कृते उत्तमबीजानामापूर्तिं कर्तुं शक्नुवन्ति तथैव कृषिकार्येण सह व्यवसायस्वरूपतया स्वीकृत्य अतिरिक्तधनोपार्जनस्य साधनमपि कल्पयितुं शक्नुवन्ति। तथा च राज्यस्य सस्योत्पादनं वर्धयितुं सहयोगमपि दातुं शक्नुवन्ति।

बीजानां प्रगुणनश्रेणयः

प्रदेशे उत्तमलक्षणोपेतबीजानाम् आवश्यकता वर्धनाय तथा अस्योपलब्धिं कारयितुं च राज्यस्तरीयबीजप्रमाणीकरणसंस्था महत्त्वपूर्णां भूमिकां वहति परन्तु अद्य समयः आगतः यत् बीजोत्पादनं न कृषकदृष्ट्या, नैव च वैज्ञानिकदृष्ट्या प्रत्युत् उद्यमदृष्ट्या दृष्टव्यम्। अनुसन्धानात् प्राप्तनवोन्नतप्रकारकबीजानि अतीव न्यूनमात्रायाम् उपलब्धानि सन्ति। कृषकेभ्यः एतेषां पर्याप्तोपलब्धिः स्यादित्येतदर्थं निम्नस्तरेषु एतेषां बीजानां प्रगुणनं क्रियते। एतेषु स्तरेषु तस्य आनुवंशिकलक्षणं गुणवत्ता च प्रत्येकस्मिन् स्तरे सुरक्षिता स्यादित्येदर्थम् अस्यां व्यवस्थायां बीजानि त्रिषु श्रेणिषु संरक्ष्यन्ते। अनुसन्धानितप्रकारकस्य केन्द्रकबीजस्य प्रथमतः विविधाऽधिकृतप्रजनकेभ्यः प्रजनकश्रेण्याः बीजानि निर्मीयन्ते, तथा च प्रजनकबीजेभ्यः आधारबीजान्यपि निर्मीयन्ते। प्रक्रियेयं राज्यबीजप्रमाणीकरणसंस्थायाः तत्त्वावधाने क्रमशः प्रजनकबीजात् आधारबीजं प्रमाणितबीजं यावत् बीजोत्पादनपर्यन्तं निर्धारिता वर्तते। प्रमाणितोत्तमबीजानि स्रोताधारेण निम्नत्रिषु श्रेणीषु निधीयन्ते-

प्रजनकबीजानि-

आनुवंशिकशुद्धतायाः बीजोत्पादनं तस्य च कृषकेभ्यः उपलब्धिः उत्तमप्रजनकबीजोत्पादनस्य अधीनं वर्तते। प्रजनकबीजस्योत्पादनकार्यं भारतीयकृषि-अनुसन्धानपरिषत् नवदेहलीनियन्त्रितेषु अनुसन्धानकेन्द्रैः राज्याधीनकृषिविश्वविद्यालयैः च क्रियते। प्रजनकबीजं अधिकृतप्रजनकविशेषज्ञस्य अधीनतायां निर्मीयते। इदम् आधारबीजोत्पादनस्य मूलस्त्रोतः वर्तते। अस्य बीजस्य पुटके स्वर्णिमपीतवर्णीयं बीजविवरणपत्रं संश्लिष्टं भवति। यस्मिन् कृषिप्रजनकविशेषज्ञस्य हस्ताक्षरो भवति।

आधारबीजम्

इदं बीजं प्रजनकबीजस्य सन्ततिर्भवति। बीजप्रमाणीकरणसंस्थया निर्धारितमानकेषु कृतपरीक्षणेषु सफले सति एतद् बीजं प्रमाणीक्रियते। आधारबीजस्य पुटकेषु श्वेतवर्णीयं प्रमाणीकरणध्वजं संश्लिष्टं भवति। यस्मिन् संस्थायाः अधिकृत-अधिकारिणः हस्ताक्षरः भवति।

प्रमाणितबीजम्-

आधारबीजस्य द्विगुणनद्वारा प्रमाणितबीजं निर्मीयते। बीजप्रमाणीकरणसंस्थया निर्धारितमानकेषु कृतपरीक्षणेषु सफले सति एतद् बीजं प्रमाणीक्रियते। प्रमाणितबीजपुटकेषु नीलवर्णीयं प्रमाणीकरणध्वजं श्लिष्टं भवति। यस्मिन् संस्थायाः अधिकृत-अधिकारिणः हस्ताक्षरः भवति।

स्रोतः- मध्यप्रदेश-कृषि-कृषककल्याण-कृषिविकासविभागः, मध्यप्रदेशसर्वकारः

Last Modified : 12/3/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate