অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

प्रधानमन्त्री जन-धन योजना

परिचयः

इयं योजना वित्तीयसमावेशे एकः राष्ट्रियनियोगः वर्तते यस्योद्देश्यं वर्तते देशे सर्वेभ्यः परिवारेभ्यः बैंकिंगसेवायाः उपलब्धिः प्रत्येकगृहस्य च वित्तीयलेखायाः आरम्भः। प्रधानमन्त्रीजनधनयोजना ‘सब का साथ सब का विकास’-इत्यस्याः अवधारणायाः महत्त्वपूर्णभागः वर्तते। एकस्याः लेखायाः आरम्भानन्तरं प्रत्कस्मै नागरिकाय वित्त-ऋणसम्बन्धिसुविधाः सुलभाः भविष्यन्ति।

अनेन ऋणदातृणां व्यूहात् संरक्षितुम् आपातकालीनावश्यकतासमुद्भूतवित्तीयसङ्कटेभ्यः स्वात्मानं त्रातुं विविधवित्तीयोत्पादैः लाभान्वयनस्य च अवसरः लप्स्यते। प्रथमचरणेन प्रत्येकस्मै लेखाधारकाय एकं रूपेडेविट्पत्रं एकलक्षरुप्यकाणां दुर्घटनाभिरक्षाकवच (बीमाकवर) प्रदास्यते। अग्रे ते अभिरक्षा-निवर्तिवेतनोत्पादसीमायां संस्थापयिष्यन्ते।

वित्तीयसाक्षरतायै प्राथमिकता

पीएमजेडीवाई-इत्यस्य तत्त्वावधाने साक्षरतायै प्राथमिकता प्रदत्ता। एनां योजनां प्रति जागरुकतायै देशीभाषानां एका मानकवित्तीयसाक्षरतासामग्री निर्मिता वर्तते। अस्याः योजनायाः तत्त्वावधाने न्यूनातिन्यूनं एकया लेखया सह 7.5कोटिपरिवाराणां सङ्ग्रहणस्यानुमानं वर्तते।

योजनायाः मुख्यतथ्यानि

  • प्रधानमन्त्रीवित्तीयसमावेशे 28अगस्त2014तमे दिनाङ्के प्रधानमन्त्रीजनधनयोजन-इत्यस्याः (पीएमजेडीवाई) राष्ट्रिययोजनायाः
  • इयं योजना द्वयोः चरणयोः प्रवर्तयिष्यते।
  • प्रथमचरणं 15अगस्त 2014तः 14अगस्त2015वर्षपर्यन्तं आसीत् यस्मिन् निन्मलिखितानि सम्मिलितानि आसन्-
    1. समग्रदेशे सर्वेभ्यः परिवारेभ्यः उचितसीमायां कस्याश्चित् वित्तकोषशाखायाः निर्धारित- प्वाइंटबिजनेस-कॉरस्पोंडेंट-इत्यनेन माध्यमेन वा वित्तीयसुविधानां वैश्विकोपलब्धता।
    2. सर्वेभ्यः परिवारेभ्यः एकलक्षरुप्यकाणां दुर्घटनाभिरक्षाकवचेन सह रूपेडेबिट्पत्रेण सह न्यूनातिन्यूनं एकस्याः मूललेखायाः उपलब्धतानिर्माणम्। एतदतिरिक्तं लेखायाः सन्तोषजनकरीत्या षड्मासं यावत् परिचालने सति आधारसम्बद्धलेखासु पञ्चसहस्ररुप्यकाणाम् ओवरड्राफ्टसुविधायाः अनुमितरपि देया भविष्यति।
    3. वित्तीयसाक्षरताकार्यक्रमस्यारम्भः यस्योद्देश्यं वर्तते-वित्तीयसाक्षरतायाः ग्रामस्तरं यावत् नयनम्।
    4. कृषकक्रेडिट्पत्रं केसीसी रूपेकृषकपत्रत्वेन प्रवर्तनमपि योजनायाः अधीनं प्रस्तावितं वर्तते।
    5. द्वितीयचरणं 15अगस्त2015तः 14अगस्त2018वर्षपर्यन्तं भविष्यति।
  • जनेषु माइक्रो-अभिरक्षायाः उपलब्धतायाः निर्माणम्।
  • बिजनेसकॉरस्पोंडेंट बीसी माध्यमेन स्वावलम्बनसदृशी असंगठितक्षेत्रनिवृत्तिवेतनयोजनानां प्रवर्तनम्।

ग्रामीणनगरीयक्षेत्रयोः सर्वेषु परिवारेषु व्याप्तिः

अस्यां योजनायां मुख्यं तथ्यमिदं यत् पूर्वलक्षितग्रामान् विहाय अस्मिन् क्रमे परिवाराः लक्ष्यभूताः सन्ति। एतदतिरिक्तं ग्रामीणनगरीययोः द्वयोः क्षेत्रयोः अस्यां योजनायां संग्रहणं क्रियमाणं वर्तते। पूर्वं तु मात्रग्रामीणक्षेत्राणि एव लक्ष्ये सन्निधापितानि आसन्। वर्तमानयोजनायां वित्तमन्त्रिणः नेतृत्वे मिशन्द्वारा निरीक्षणे विशेषाग्रहेण सह डिजिटलवित्तीयसमावेशस्य प्रावधानं वर्तते।

प्रधानमन्त्रीजनधनयोजना- प्रथमदिवसे एककोटितः अधिकाः लेखाः

प्रधानमन्त्रीजनधनयोजनायाः तत्त्वावधाने 70000तः अधिकेषु शिविरेषु 1,84,68,000 नूतनलेखाः उद्घाटिताः। देशाभ्यन्तरे प्रायशः 7.5कोटिः एतादृशाः धारकाः ये अद्यावधिः वित्तकोषैस्सम्बद्धाः न आसन् तेषां वित्तीयसमावेशनं कर्तुं एकस्य महत्वाकाङ्क्षिकार्यक्रमस्य प्रधानमन्त्रीजनधनयोजनायाः आरम्भः अभवत्। अस्याः योजनायाः तत्त्वावधाने 7.5कोटिः लेखानां कल्पनस्य लक्ष्यं 26जनवरी2015ईस्वीयाब्दं पर्यन्तं समापनीयं वर्तते। 79मेगाशिविरमाध्यमेन राज्यानां राजधानीषु मण्डलेषु 70सहस्राधिकानि शिविराणि आयोजितानि तथा च 1,84,68,000 लेखाः परिकल्पिताः। निर्णयश्च स्वीकृतः यत् एतदनन्तरं वित्तकोषैः एतादृशानि शिविराणि प्रतिसप्ताहं शनिवासरे प्रातः 8वादनतः रात्रौ 8वादनयावत् आयोजयिष्यन्ते। तेभ्यः येषां परिवाराणां लेखा न कस्मिंश्चित् वित्तकोषे अस्ति, तादृशानां परिवाराणां वित्तकोषेन सम्पर्कनिर्माणलक्ष्यं निश्चितसमयावधौ सम्पादितः स्यात्। योजनानुसारं लेखारहितपरिवारिन् यदि लेखां उद्घाटयति तर्हि तस्मै एकलक्षरुप्यकाणां दुर्घटनाभिरक्षया सह रूपेडेबिट्पत्रं प्रापयिष्यते। 26जनवरी2015दिनाङ्कपर्यन्तं परिकल्पिताभ्यः लेखाभ्यः 30सहस्ररूप्यकाणाम् अतिरिक्तजीवनाभिरक्षाकवचप्रदानस्य घोषणा प्रधानमन्त्रिणा कृता। एतदतिरिक्तं जीवनाभिरक्षाकवचस्य व्यवहारनियमेषु वित्तीयसेवाविभागः कार्यं कुर्वन्नस्ति। लाभार्थिनः येषां लेखा पूर्वत एव वर्तते तेपि अस्याः योजनायाः तत्त्वावधाने 26जनवरी2015तः प्राक् तद्वित्तकोषान्निर्गतरूपेपत्रं स्वीकृत्य 1लक्षरुप्यकाणां दुर्घटनाभिरक्षा 30सहस्ररुप्यकाणां च जीवनाभिरक्षां ग्रहीतुम् अर्हन्ति।

स्रोतः- पत्रसूचनाकार्यालयः (पसूका,पीआईबी)

Last Modified : 10/28/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate