অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

राष्ट्रियशिक्षुताप्रशिक्षणयोजना- एकः परिचयः

अवलोकनम्

राष्ट्रियप्रशिक्षुताप्रशिक्षणयोजनाः एकवर्षीयः कार्यक्रमो वर्तते यः तकनीकिदृष्ट्या शिक्षितयुवकान् तादृशैः ज्ञान-कौशलैः परिपूरयति येषामावश्यकता कार्यक्षेत्रे सञ्जायते। अस्मिन् प्रशिक्षुकेभ्यः विविधसंगठनैः तेषां कार्यस्थले एव प्रशिक्षणं दीयते। अस्मिन् सुविकसितप्रशिक्षणमाड्यूलोपयोगं कृत्वा प्रशिक्षितप्रबन्धकाः सुनिश्चतीकुर्वन्ति यत् प्रशिक्षुगणः स्वकार्यं शीघ्रतया पूर्णतया च अधिगच्छेयुः।

प्रशिक्षणावधौ प्रशिक्षुकेभ्यः वृत्तिराशिरपि दीयते यस्याः अर्धभागस्य वहनं भारतसर्वकारेण नियोजकेभ्यः क्रियते। प्रशिक्षणान्ते प्रशिक्षुकेभ्यः भारतसर्वकारद्वारा प्रवीणताप्रमाणपत्रं प्रदीयते यच्च कार्यानुभवत्वेन देशे सर्वेषु नियोजनालयेषु पञ्जीकरणं कारयितुं शक्यते। प्रशिक्षुकेभ्यः प्रशिक्षणं तादृशेषु केन्द्रसर्वकार-राज्यसर्वकार-निजक्षेत्रीयसंस्थानेषु दीयते येषां सन्निधौ अत्युत्तमप्रशिक्षणसुविधाः उपलब्धाः भवन्ति। राष्ट्रियप्रशिक्षुताप्रशिक्षणयोजना भारतसर्वकारस्य एकः अग्रणी कार्यक्रमः वर्तते यः भारतीययुववर्गस्य कौशलवृद्ध्यै वर्तते।

प्रशिक्षणस्य आवश्यकता कथम् ?

प्रशिक्षुता कस्माच्चित् गुरुणः प्रवीणात् वा कला-व्यवसायाधिगमस्य अतीव व्यवहृता प्राचीना च पद्धतिर्वर्तते।प्रशिक्षुता प्रशिक्षणयोजना एतादृशः कार्यक्रमो वर्तते यस्मिन् तकनीकिदृष्ट्या शिक्षितयुवकः मुख्यप्रशिक्षकात् तादृशं प्रशिक्षणमाप्नोति यत् आधुनिकपरिदृश्ये व्यासायाय उपयुक्तं भवेत्। अस्मिन् अधिगच्छ अर्जय चेति द्विविधः लाभः अस्ति। प्रशिक्षुता कौशलाधिगमेच्छुकप्रशिक्षु-व्यवसायप्रदात्र्योर्मध्ये एका अभिसन्धिः वर्तते।

अस्मिन् प्रशिक्षुभ्यः कार्यक्षेत्रसम्बन्धिनवीनतमानुप्रयोग-प्रक्रिया-पद्धतीनां शिक्षा देशस्य कैश्चित् अतिप्रसिद्धसंस्थानैः प्रदीयते। अयं विद्यालय-महाविद्यालयीयछात्रेभ्यः कक्षातः कार्यक्षेत्रं प्रति प्रवेशसमयो भवति। अस्मिन् प्रशिक्षणावधौ प्रशिक्षुभ्यः शिष्टव्यवहारकौशल-कार्यसंस्कृति-नैतिकमूल्य-संगठनात्मकव्यवहारस्यापि शिक्षा दीयते। यच्च भविष्ये स्थायिव्यवसायप्राप्तये तेषामुपयोगाय सम्पद्यते। एकवर्षीयप्रशिक्षणावधौ अन्ते प्रशिक्षुकेभ्यः कस्यचिद्विशिष्टक्षेत्रे दक्षतासम्बन्धिप्रमाणपत्रमपि दीयते।

छात्रः- एनएटीएस किमर्थम्?

  • राष्ट्रियप्रशिक्षुता-प्रशिक्षणयोजना छात्रेभ्यः केन्द्रराज्यसर्वकार-निजक्षेत्रीयेषु केषुचित् सर्वोत्कृष्टसंस्थानेषु प्रशिक्षणावाप्तये अवसरं प्रयच्छति। ये छात्राः आभियान्त्रिक्यां उपाधिः प्रमाणपत्रं वा धारयन्ति उत +2इत्यस्य व्यावसायिकयोग्यतां धारयन्ति ते स्वनामाङ्कनं पञ्जीयनं वा एनएटीएसइत्यस्य अन्तर्जालीयपृष्ठे कारयित्वा प्रशिक्षुताप्रशिक्षणाय आवेदनं कर्तुं शक्नुवन्ति। आभियान्त्रिक्यां उपाधि/प्रमाणपत्रधारकेभ्यः 126क्षेत्राणि तथा च +2 योग्यातधारकेभ्यः 128क्षेत्राणि सन्ति येषां प्रशिक्षणं दीयते। प्रशिक्षणावधिः एकवर्षात्मिका अस्ति। प्रशिक्षणार्थिभ्यः वृत्तिका अपि दीयते यस्य 50प्रतिशतभागः भारतसर्वकारेण नियोजकेभ्यः / व्यवसायप्रदातृभ्यश्च दीयते। छात्रगणः एनएटीएस-अन्तर्जालीय-पृष्ठमाध्यमेन प्रशिक्षुताप्रशिक्षणाय स्वपंजीकरणं कारयितुं शक्नुवन्ति। छात्रेभ्यः परामर्शः दीयते यत् ते तेषु प्रशिक्षुताहट्टेषु सम्मिलिताः भवेयुः येषां नियमितमायोजनं अस्य प्रशिक्षणचयनार्थं क्रियते। अस्याः प्रशिक्षणयोजनायै प्रशिक्षणार्थीणां चयनस्य विशेषाधिकारः नियोजकानां व्यवसायप्रदातृणाम् अस्ति। संस्थानानां प्राप्तलाभाः इत्थं सन्ति-
  • कार्यावाप्तिः
  • प्रशिक्षुताप्रशिक्षणाय आवेदनं
  • व्यवसायप्राप्तिसम्बन्धितयुक्तिप्राप्तिः।

उद्योगः- एनएटीएस किमर्थम्?

राष्ट्रियप्रशिक्षुताप्रशिक्षणयोजना भारतसर्वकारस्य एकः अग्रणीकार्यक्रमो वर्तते यस्योद्देश्यं वर्तते- आगामिनिकाले आवश्यकतापूर्त्यै भारतीयेषु कौशलनिर्मितिः। इयं योजना व्यसायप्रदातृणामावश्यकता- उपलब्धछात्रमेधयोः अन्तरं दूरीकरोति। इयं संगठनेभ्यः सुविधां प्रयच्छति यत् ते तकनीकिदृष्ट्या शिक्षितनवप्रत्याशिनां नियुक्तिः कारयेयुः भारतसर्वकारस्यानुदानात् तेषां एकवर्षं प्रशिक्षणं कारयेयुः आवश्यकतायां सत्यां च तान् नियमितकर्मचारिरूपेण नियोजयेयुः। एतेषां प्रशिक्षूणां पूर्णनियन्त्रणं प्रशिक्षु-अधिनियम-1961इत्यनेन भवति।

प्रशिक्षूणां नियोजकसंगठनानि सविधौ अपरिहार्या आधारभूतसंरचना भवितव्या तथा च एतादृशाः प्रशिक्षितप्रबन्धकाः भवितव्याः ये एतान् प्रशिक्षुकान् प्रशिक्षणे समर्थाः स्युः। अनेन राष्ट्रियप्रशिक्षुतायोजना तादृशीनां प्रतिभानां निरन्तरनिधिनिर्माणाय साहाय्यं विदधाति या इष्टतमनिवेशे उद्योगेषु तत्कालिकनियोजनाये उपयुक्ताः स्युः तथा च कस्यचित् संगठनस्य मानवीयसंसाधनसम्बन्धि-आवश्यकतानां पूर्त्यै सहायकाः स्युः। प्रशिक्षूणां चयनं नियोजकानां विशेषाधिकारः वर्तते। उद्योगजगते प्राप्तलाभः निम्नलिखितः वर्तते-

  • स्वरिक्तीनां विज्ञापनं दद्यात्।
  • प्रशिक्षुप्रशिक्षणार्थीनां चयनं कुर्युः।
  • व्यवसायावाप्तये युक्तीः दद्युः।

संस्थानम्- एनएटीएस किमर्थम्?

राष्ट्रियप्रशिक्षुताप्रशिक्षणयोजना शिक्षणसंस्थानानां साहाय्यं विदधाति। तस्मात् ते स्वस्य उत्तीर्णछात्राणां नियोजनमग्रणीसंस्थासु प्रशिक्षुप्रशिक्षणार्थं कारयेयुः। केन्द्रसर्वकार-राज्यसर्वकार-निजक्षेत्रीयसंस्थाः अस्य प्रशिक्षुप्रशिक्षणाय प्रत्याशीनां नियोजनं कुर्वन्ति। अस्याः योजनायाः लाभं कामयमानाभ्यः संस्थाभ्यः अपेक्ष्यते यत् ता स्वपंजीकरणं एनएटीएसअन्तर्जालीयपृष्ठे कारयेयुः। मण्डल-ताल्लुकाप्रभृतिषु स्थितसंस्थाः स्वस्य उत्तीर्णछात्राणां नियोजने काठिन्याभिमुखीकुर्वन्ति यतोहि तत्र औद्योगिकसमुच्चयानामभावः वर्तते।

इयं योजना एतादृशानां संस्थानानां साहाय्यं करोति तस्मात्ते स्वछात्राणां कृते तादृशानाम् उत्तमावसरणानां द्वाराणि उद्धाटयेयुः ये अवसराः मात्रनगरीयछात्रेभ्यः उपलब्धाः सन्ति। प्रशिक्षुताप्रशिक्षणपरिषत्/व्यावहारिकप्रशिक्षणपरिषदा सह संबन्धिते सति संस्थाभिः आपण-उद्योगानां तात्कालिकावश्यकतानां ज्ञानं भवति। तस्मात् ताः वर्तमानपरिदृश्यानुरूपं स्वपाठ्यक्रम-प्रशिक्षणकार्यक्रमाणां निर्माणं कर्तुं शक्नुयुः। संस्थानानां प्राप्तलाभेषु केचन लाभाः निम्नाङ्किताः सन्ति- स्वछात्रसम्बन्धिसूचना अपलोड् कुर्वन्तु।

  • उद्योगैस्सह संवादे नैरन्तर्यं स्थापयेयुः।
  • नियोजनसम्बन्धियुक्तयः निर्दिशेयुः।

स्रोतः- राष्ट्रियशिक्षुताप्रशिक्षणयोजना मानवसंसाधनविकासमन्त्रालयः भारतसर्वकारः।

Last Modified : 10/22/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate