অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

स्वास्थ्यम्

स्वास्थ्यम्

  • health1.jpeg

    मातृत्वं शिशुस्वास्थ्यावधानम्

    भारतः मातृमृत्योरनुपातं न्यूनीकर्तुं कृतसंकल्पः वर्तते। अतः प्रजननस्वास्थ्यसम्बन्धिसुविधाः सर्वेभ्यः प्रदातुं प्रयतमानो वर्तते। सर्वकारसंचालितेभ्यः विविधेभ्यः मातृ-शिशुस्वास्थ्यसम्बन्धिकार्यक्रमेभ्यः पर्याप्तजनजागरणं तदुपयोगितासुनिश्चिति च मौलिकस्तरे महत्वं भजतः।

  • health2.jpeg

    देशीचिकित्साप्रणाली

    देशीचिकित्साप्रणाल्याः उपयोगमाधृत्य जनेभ्यः महत्वपूर्णसूचनानां प्रसारः आवश्यकं वर्तते। आयुर्वेद-योग-प्राकृतिकचिकित्सा-यूनानी-सिद्ध-होम्योपैथी(आयुष)-सम्बन्धिज्ञानं संसाधनसामग्री तद्व्यवहारसंवर्धनाय च भारतीयविकासप्रवेशद्वारः स्वसूचनाः बहूपयोग्युत्पादद्वारेण ददाति ।

  • health3.jpeg

    मानसिकस्वास्थ्यसम्बन्धिजागरुकता—कालस्यावश्यकता

    विश्वस्वास्थ्यसंगठनानुसारम्—वर्ष2020 पर्यन्तम् अवसादः समग्रे विश्वस्मिन् द्वितीयः महा-आधित्वेन विश्वव्यापिनी समस्या सम्भविष्यति। जीवनस्तरस्य संरक्षणार्थं सामाजिक-वित्तीयव्यये वर्धिते सति मानसिकस्वास्थ्यक्षयात् च मानसिकस्वास्थ्य-मानसिकरोगाणां चिकित्सायै जागरूकतायाः आवश्यकता अनुभूतास्ति।

महिलास्वास्थ्यम्

समग्रस्त्रीजीवने यौवनकालात् रजोनिवृत्तिपर्यन्तं महिलास्वास्थ्यमतीव महत्वं भजते। अनेन पोर्टलमाध्यमेन किशोरिस्वास्थ्यसंरक्षण- सुरक्षितमातृत्व-उत्तमप्रजननस्वास्थ्यसंरक्षणादिभिः सम्बन्धितं ज्ञानं प्रदत्तम्।

बालस्वास्थ्यम्

बालविकासः जटिला सततक्रिया वर्तते। अस्मिन् क्रमे भागोयं बालस्वास्थ्यसम्बन्धिविविधमहत्वपूर्णाः सूचनाः ज्ञातुं अवसरं प्रयच्छति।

आयुष्

चिकित्सा-होम्योपैथी(भारतीयचिकित्सापद्धतिः होम्योपैथी च)-विभागः मार्चमासे 1995 तमे अब्दे विनिर्मितः। स्वोपयोगितां प्रकल्प्य वैकल्पिकचिकित्सापद्धतित्वेन अयं विभागः लोकप्रियतां गतस्सन् समाजे स्वप्रतिष्ठाम् महत्वम् च आप्नुवन् अस्ति।

पोषाहारः

जनसंख्याविस्फोटः आहारस्य च आवश्यकता युगपत् संचलतः। अयं भागः पोषाहारस्य विविधपक्षान् प्रकाशयन् स्वस्थ्यजीवने तस्य उपयोगितां दर्शयति।

रोगःलक्षणं निदानं च

पारम्परिकरोगैस्सह कार्यशैली-पर्यावरणपरिवर्तनेन उत्पद्यमानानां नवीनरोगाणां अभिज्ञानं चिकित्सकेषु चिन्तां जनयति। भागोयं पारम्परिकरोगाणैस्सह नवोत्पन्नरोगाणां कारकान् स्पष्टयन् नागरिकेषु जागरुकतां सञ्चारयितुं प्रयतते।

स्वच्छता स्वास्थ्यविज्ञानं च

स्वच्छतायाः समग्रपरिभाषायां स्वच्छजल-द्रव-घनापशिष्टप्रबन्धन-पर्यावरण-व्यक्तिगतस्वच्छताप्रभृतयः सम्मिलिताः सन्ति। एषां साक्षात्प्रभावः सामुदायिके/पारिवारिकस्वास्थ्ये व्यक्तौ वा सम्भाव्यते। भागेस्मिन् अस्य सूचनाः वर्तन्ते।

मानसिकस्वास्थ्यम्

विश्व-स्वाथ्यसंगठनं मानसिकस्वास्थ्यं परिभाषते यत् यः व्यक्तिः स्वं स्वक्षमतां च जानाति सः सामान्यजीवने तनावं निवारयितुं शक्नोति।अयं भागः मानसिकस्वास्थ्यसम्बद्धविविधसूचनाः ज्ञातुं अवसरो ददाति।

स्वास्थ्ययोजनाः

12 अप्रैल्2005 तमे अब्दे प्रारभिते राष्ट्रियग्रामीणस्वास्थ्ययोजनायां महिलाभिस्सह बालस्वास्थ्यसुधारः वञ्चितसमूहानां स्वास्थ्यावश्कतानां पूर्तिः, सार्वजनिकस्वास्थस्य संवर्धनपूर्वकं स्वास्थ्यस्थिरता तथाच सामर्थ्यनिर्माणे कुशलस्वास्थ्यसेवावितरणे संवर्धनादि लक्ष्याणि निर्धारितानि सन्ति। भागोयं अनेनसम्बन्धिताः सूचनाः प्रददाति।

प्राथमिकचिकित्सा

प्राथमिकचिकित्सा तात्कालिक-अस्थायीसुरक्षार्थं दुर्घटनायाम् अकस्मात् रोगग्रस्ते सति वा कस्यचित् प्रशिक्षितचिकित्सकीयसेवायाः उपलब्धेः प्राक् दीयते। अस्मिन्नेव क्रमे अयं भागः प्राथमिकचिकित्सासम्बद्धाः सूचनाः प्रस्तूय जागरुकतायाः संवर्धनाय प्रयतते।

यत्र महिलाभ्यः चिकित्सा न सन्ति

भागोयं तासां परिस्थितीनां समग्रसूचनाः ददाति यत्र महिलाभ्यः कश्चन चिकित्सकः न उपलभते। महिलाजीवने आगतानां आसां स्वास्थ्यसमस्यानाम् उल्लेखः तदुपायश्च प्रशिक्षितविद्वद्भ्यः निर्दिष्टः।

जीवनशैल्यां विकारःभारतीयपरिदृश्यम्

आधुनिकविज्ञाने उन्नतस्वच्छता-टीकाकरण-एंटीबायोटिक्स-चिकित्सकीयसुविधाभिः अनेकाभिः सङ्क्रामकाधिभिः मृत्युभयः न्यूनः जातः। अस्मिन् भागे तत्सम्बन्धिविविधसूचनाः प्रदत्ताः सन्ति।

Last Modified : 12/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate