गृहे / शिक्षा / शिक्षां प्रति प्रवृत्तेराम्भः / अनौपचारिकशिक्षायाः उद्गमः
विचारं
Views
  • राज्यम् : Open for Edit

अनौपचारिकशिक्षायाः उद्गमः

अस्मिन् लेखे अनौपचारिकशिक्षया सम्बन्धिताः उपयुक्ताः सूचनाः प्रदत्ताः।

द्वितीयविश्वयुद्धानन्तरमौपनिवेशिकावधेरनन्तरं नवोदितराष्ट्रेषु व्यापक-विकसितौपचारिकशिक्षायाः तीव्रगत्या गतिविधयः आरब्धाः। षष्टतमे दशके सर्वत्रैव चिन्ता आसीत् यदौपचारिकशिक्षायाः सुविधाविस्तारानन्तरमपि सर्वाः समस्याः न समासाधिताः। औपचारिकशिक्षात्वेन अनौपचारिकशिक्षात्वेन च शिक्षायाः वर्गीकरणम् एकं व्यवधानं व्यदधाति। फिलिपकूम्बसप्रभृतीनामध्ययनात् ज्ञातं यत् विकसितसमाजे एकस्या नवीनायाः शिक्षाप्रणाल्याः विकासः कृतः या अनौपचारिकी शिक्षा निगद्यते। अस्याम् अनौपचारिक्यां शिक्षायां तीव्रगत्या परिवर्तनशीलसमाजस्य न्यूनावधिकावश्यकतापूर्त्त्यै अतिक्रियात्मककार्यक्रमाः आसन्।

अनौपचारिकशिक्षा निर्बल-अप्रागतिकवर्गेभ्यः शैक्षिकावसरान् प्रयच्छति। नमनीयता अनौपचारिकशिक्षायाः कुञ्जिका वर्तते। अस्यां शिक्षायां विस्तृतिः वर्तते। प्रवेश-पाठ्यक्रम-शैक्षिकस्थल-शिक्षाप्रणाली-प्रशिक्षणसमय-अवधिप्रभृतिषु न किञ्चन बन्धनं वर्तते। एते च परिस्थित्यनुसारं परिवर्तयितुमपि शक्यन्ते। अनौपचारिकशिक्षायाः कानिचन उदाहरणानि सन्ति। मुक्तविद्यालयः मुक्तविश्वविद्यालयः मुक्ताधिगमः पत्राचारपाठ्यक्रमः इत्यादयः। अनौपचारिकशिक्षायाः एकमुदाहरणं वर्तते- मुक्तविद्यालयः यस्य प्रमुखानि लक्ष्याणि निम्नाङ्कितानि सन्ति-

  1. औपचारिकविद्यालयैस्सह तद्विकल्परूपत्वेन एकस्याः समानान्तरानौपचारिकव्यवस्थायाः प्रबन्धनम्।
  2. विद्यालयात् बहिः अध्ययनरतेभ्यः विद्यालयत्यक्तृभ्यः कर्मकरव्यस्केभ्यः गृहिणीभ्यः सुदूरक्षेत्रेषु निवसद्भ्यः सामाजिकरूपेण अप्रागतिकवर्गेभ्यः शिक्षायाः व्यवस्थापनम्।
  3. माध्यमिकस्तरपाठ्यक्रमस्य अध्ययनाय प्रशिक्षूणां सेतुप्रारम्भिकपाठ्यक्रमाणां व्यवस्थापनम्।
  4. दूरशिक्षणविधिना माध्यमिक-उच्चतरमाध्यमिक-प्राविधिक-जीवनसमृद्ध्यै पाठ्यक्रमाणां व्यवस्थानिर्माणम्।
  5. अनुसन्धान-प्रकाशन-सूचनाप्रसारणैः शिक्षायाः मुक्तद्वितीयोद्गमव्यवस्थायाः प्रस्तुतीकरणम्।

अनौपचारिकशिक्षायां प्रौढशिक्षा-सततशिक्षापर्यन्तं कर्मणिरताः शिक्षाश्रमिकाः सन्ति।

अनौपचारिकशिक्षायाः परिभाषा

ईसवीब्दे 1968तमे वर्षे फिलिपकूम्बसद्वारा अनौपचारिकशिक्षायाः चर्चा कृता। परन्तु सा 1970तमाद् वर्षादनन्तरमेव परिभाषिता। वस्तुतस्तु अनौपचारिकशिक्षा एकाप्राचीनप्रणाल्याः नूतनमभिधानं वर्तते। अनौपचारिकशिक्षायाः काश्चनपरिभाषाः निम्नलिखिताः सन्ति-

  1. कूम्बसः अहमदश्च- ‘जनसंख्यायां विशेषोपसमूहेभ्यः वयस्कबालैः चितं अधिगमं प्रदातुं औपचारिकशिक्षायाः बहिः कश्चिदपि संगठितः कार्यक्रमः वर्तते।’
  2. ला बैलावर्यः- ‘अनौपचारिकशिक्षायाः सन्दर्भः विशिष्ट्लक्षितजनसंख्यायै विद्यालयाद्बहिः संगठितकार्यक्रमो वर्तते।’
  3. इलिच् फ्रेयरः च- ‘अनौपचारिकी शिक्षा औपचारिकशिक्षायाः विरोधिनी शिक्षा अस्ति।’
  4. मोतीलालशर्मा- ‘कश्चन वक्तुं शक्नोति यत् अनौपचारिकशिक्षा एकः सक्रियः आलोचनात्मकः द्वन्दात्मकः शैक्षिककार्यक्रमः वर्तते, यः अधिगमने स्वसाहाय्यं विधातुं, चैतन्येन च स्वसमस्यानामालोचनात्मकतया साम्मुख्यं कर्तुं मनुष्यानां साहाय्यं विदधाति। अनौपचारिकशिक्षायाः लक्ष्यं सङ्कलित-प्रामाणिकमानवानां विकासः वर्तते यः समाजविकासे योगदानं कुर्यात्। अस्मिन् न केवलं व्यक्तिः प्रत्युत् एकस्मिन् सदधिगमसमाजे योगदानं कुर्वन् सम्पूर्णसामाजिकीं व्यवस्थाम् अधिगच्छति।’

अनौपचारिकशिक्षायाः साधनानि

अनौपचारिकशिक्षाकार्यक्रमान् संगठयितुं विविधसाधनानि सन्ति-

  1. औपचारिकशिक्षासंस्थाः
  2. अनौपचारिकशिक्षायै विशिष्टसाधनानि यथा- नेहरुक्रीडाकेन्द्रम्, यन्त्रागारेषु प्रशिक्षणकेन्द्रम्, सार्वजनिकपुस्तकालयः, पत्राचारशिक्षायाः केन्द्रम् इत्यादयः।
  3. क्लब-सोसायटीप्रभृतिस्वयंसेवि-असर्वकारीयसंगठनानि।
  4. आकाशवाणी दूरदर्शनञ्च।

शिक्षायाः तिसृषु प्रणालीषु अनौपचारिकशिक्षा अपि अन्यतमा वर्तते। अन्ये च स्तः- औपचारिकशिक्षा अनौपचारिकशिक्षा च। अस्तु अनौपचारिकशिक्षायाः व्यवस्था औपचारिकानौपचारिकशिक्षयोर्मध्ये द्रष्टव्याः आयोजयितव्या च। तस्याः संगठनम् औपचारिकानौपचारिक्याभ्यां पृथक्त्वेन न करणीयं यतोहि अनेन सा अपर्याप्तप्रभावहीनप्रणालीत्वेन सम्भविष्यति। अपरतः ताम् आधारभूतकौशलान् यावदेव न सीमितीकरणीयम्। तस्याः व्यवस्था समग्रसामाजिक-आर्थिकपरिवेशे आधुनिकसामाजिकसन्दर्भाय अधिकसंगठितसमुदायाय च करणीयम्। समुदायोऽयं तादृशं परिवर्तनं नवीनीकरणं च प्रतीक्षते यस्मिन् शिक्षायाः त्रिविधापि प्रणाल्यः योगदानं कर्तुं शक्ष्यन्ति। तदर्थं सामुदायिकावश्यकता-अधिगमव्यवस्थयोर्मध्ये स्थितभेदस्य निराकरणमावश्यकमस्ति।

औपचारिकी शिक्षा अनौपचारिकी शिक्षा च

औपचारिकशिक्षा अनौपचारिकी शिक्षा
1 शिक्षायाः अवधौ सीमिता विशिष्टावधौ न भूत्वा जीवनपर्यन्तं प्रचाल्यमाना
2 साधारणतया कार्यादसङ्कलिता कार्येण सङ्कलिता
3 प्रवेशबहिर्गमनाय निश्चितबिन्दुः प्रवेशनिर्गमनपुनःप्रवेशसहिता व्यक्तेःआजीवनं प्रचाल्यमाना वर्तते।
4 सुनिश्चितपाठ्यक्रमः विविध-बहुमुखिपाठ्यक्रमः
5 दाता मुख्यः ग्रहीता च निष्क्रियो भवति। सहभावेनान्वेषणम्, वैश्वीकरणं, निर्णयसामर्थ्यस्य प्रतिभागितायाः प्रक्रिया
6 ज्ञानप्राप्त्यै परिस्थितीनां पारस्परिकसम्बन्धज्ञानस्य प्रक्रिया
7 आलोचनाविहीनम् आज्ञापालनमुत्पादयति मुक्तशिक्षाप्रक्रिया,या आत्मनिर्भरतायाः बोधं जनयति।
8 सुनिश्चितसामाजिकसन्दर्भे कार्यरता परिवर्तनस्य पूर्वापेक्षा सिद्धता च
9 परम्परागतविद्यालयीकरणेन सम्बद्धा यस्यां विद्यालयीकरणं कञ्चित् विद्यालयपर्यन्तमेव सीमितीभवति कस्याञ्चिदपि शिक्षाव्यवस्थायां असीमिता
10 शिक्षायाः विविधपक्षेषु कठोरता, यथा- प्रवेश-पाठ्यक्रम-शिक्षाप्रणाली-शिक्षणकार्यावधौ कठोरता। शिक्षायाः विविधपक्षेषु अत्यधिकनमनीया।

अनौपचारिकशिक्षा जीवनस्य यथार्थानुभात् विलगां न कर्तुं शक्यते। आधुनिकशिक्षाव्यवस्था औपचारिक-अनौपचारिक-अनौपचारिकव्यवस्थाः सन्तुलयितुं प्रयतते। सा शिक्षायाः सामाजिक-राष्ट्रिय-अन्ताराष्ट्रियपरिवेशे समन्वयं कारयति। शिक्षाशास्त्रिभिः शिक्षकैः च यथासम्भवं औपचारिकशिक्षायाः विपदः दूरीभवितव्यः, अनौपचारिक-अनौपचारिकशिक्षायाः गुणानां लाभः स्वीकर्तव्यः।

औपचारिकशिक्षायाः प्रकृतिः

अनौपचारिकशिक्षा सामाजिकार्थिकविकासयोजनासु तान् विभेदान् पाटयति यैः प्रगतिर्बाद्ध्यते। अस्तु वस्तुतस्तु तस्याः स्वस्याः प्रामाणिकाधिकारः वर्तते। सा ऐच्छिकी नियोजिता व्यवस्थिता आर्थिकसहायताप्राप्ता शिक्षाप्रणाली वर्तते। सा औपचारिकशिक्षा इव क्रियात्मका स्थान-काले असीमिता आवश्यकताः प्रति प्रतिक्रियात्मकशिक्षाप्रणाली वर्तते। आवश्यकतानां परिवर्तनस्य च विकासाय द्वाराणि उद्घाटयति। माल्कमादिशियावर्यस्य शब्देषु अनौपचारिकी शिक्षा आपणयोग्या व्यावसायिकी च भवितव्या। तस्यां स्वयमधिगमे प्रतिदिवसं बलं देयम्। एच.ऐसी.ऐसी लोरिन्सवर्यस्य शब्देषु-‘अनौपचारिकशिक्षाव्यवस्था औपचारिकशिक्षाव्यवस्थायाः न तु प्रतियोगिनी प्रत्युत् पूरकत्वेन राजते। अस्यां सामान्यतत्वानां परिज्ञानं करणीयम्, संकलितव्यवस्थायाः च विकासः करणीयः।’

अनौपचारिकशिक्षा प्रौढशिक्षा च

अनौपचारिकशिक्षाप्रौढशिक्षयोर्मध्ये अन्तरं ज्ञापयन् अनिकबोर्डियोवर्यः लिखति- ‘नवानौपचारिकशिक्षाव्यवस्था पूर्वं प्रौढशिक्षाकार्यक्रमेभ्यः एतस्मिन् सन्दर्भे भिन्ना यत् सा उपयुक्तप्रशासनिकीं संसाधनिकीं च सहायतां प्रयच्छति तथाच आवश्यकताधारितपाठ्यक्रम-अध्यापन-अधिगमसामग्रीं प्रति आग्रहं प्रदर्शयति परन्तु एकस्मिन् सतताधिकारे सर्वेषु स्तरेषु मूल्याङ्कने आग्रहं प्रदर्श्य सा अद्वितीया वर्तते। अस्यां सर्वविधप्रशिक्षणकार्यक्रम-अध्यापन-अधिगमसामग्रीणां पूर्वपरीक्षा करणीया प्रभाविअध्ययनेषु च आग्रहः देयः।’

अनौपचारिकशिक्षायाः योगदानम्

  1. प्राथमिकशिक्षायाः सार्वभौमिकविस्तारः
  2. प्रौढनिरक्षरतायाः उन्मूलनम्
  3. औपचारिकशिक्षायाः दोषाणाम् अपादानम्।
  4. जनतान्त्रिकव्यवस्थायाः व्यापक-अनिवार्य-समाधानम्।
  5. शिक्षार्थिभ्यः शिक्षया सह आयम् अर्जितुं सुविधाः
  6. तेषां शिक्षार्थिनामध्ययनसुविधानाम् संघटनं यैः आर्थिकसमस्यायाः अन्यासां समस्यानां कारणात् औपचारिकशिक्षा मध्ये एव परित्यक्ता।
  7. भौगोलिकरूपेण सुदूरक्षेत्रेषु तादृग्भ्यः विद्यार्थिभ्यः शिक्षासुविधाप्रदानं यत्र शैक्षिकसुविधाः सारल्येन नोपलभ्यते।
  8. ज्ञानं नवीकर्तुं शिक्षायाः पूरयितुं सुविधानां संघटनम्।
  9. नगरेषु ग्रामेषु वसतां जनानां शिक्षायाः असन्तुलनस्य दूरीकरणम्।
  10. सामाजिक-आर्थिकरूपेण अप्रागतिकवर्गीयेभ्यः शैक्षिकसुविधानां प्रदानम्।

अनौपचारिकशिक्षायाः लाभं स्वीकुर्वन् व्यक्तिः

  1. सर्वविधायुवर्गीयः जनः- अस्यां सर्वायुवर्गीयाः व्यक्त्यः समाविशन्ति। यैः औपचारिकशिक्षावाप्तये कदाचिदपि अवसरः न प्राप्तः।
  2. विद्यार्थी- यः प्राथमिकीं माध्यमिकीं वा शिक्षां न पूरितवन्तः।
  3. प्रशिक्षुकः- ये शिक्षायाः विविधावस्थासु विशेषरुचिकरविषये व्यापकज्ञानस्यावश्यकतां अनुभवन्ति।
  4. श्रमिकः- नगरीय-ग्रामीणक्षेत्रेषु युवाश्रमिक-लघुकृषक-भूमिहीनकृषक-लघुव्यवसायिप्रभृतयः ये स्वकार्यविषये प्राविधिकविकासं नवीनतमं ज्ञानाय च प्रवर्तन्ते।
  5. शिक्षितअनुद्योगिन्- विविधायुवर्गीयशिक्षितानुद्योगिनः, येषाम् अप्रासङ्गिकीं शिक्षाम् अत्यप्रासङ्गिकीकर्तुम् आवश्यकता वर्तते। तस्मात् व्यवसायस्य अवसराणां वृद्धिर्भूयात्।
  6. स्नातकव्यावसायिकवर्गः बुद्धिजीवी- येभ्यः ज्ञानं नवीकर्तुं विशिष्टरिफ्रेशरपाठ्यक्रमाणाम् आवश्यकता वर्तते।
  7. अन्यव्यक्तिः- ते जनाः येषां कृते मनोरञ्जन-अवकाशक्रिया-सांस्कृतिक-कलात्मककार्यक्रमाणाम् आवश्यकता भवति।

स्रोतः शिक्षायाः सिद्धान्तः, जेवियरसमाजसेवासंस्थानम्

2.2
स्वीयटिप्पणीः योजयतु

यदि कापि टिपाणी भवत्पक्षतः स्यात् तर्हि अत्र प्रस्तौतु

Enter the word
Back to top