प्राथमिकशिक्षा तादृशः आधारो वर्तते यत्र देशस्य तस्य नागरिकस्य च विकासः आश्रयते। गतदिवसेष्वेव भारतेन प्राथमिकशिक्षायां नामाङ्कन-छात्रसंख्यानियमन-नियमितोपस्थितिदर-साक्षरताप्रसारसन्दर्भेषु च अतीव प्रगतिः कृताः। एकतः उन्नतभारतीयशिक्षीपद्धतिः देशस्यार्थिकविकासस्य मुख्ययोगदानकर्त्रीत्वेन ज्ञायते तत्रैव अपरतः भारते आधारभूतशिक्षायाः गुणवत्ता वस्तुतः चिन्तायाः विषयः वर्तते।
भारते चतुर्दशवर्षं यावत् सर्वेभ्यः बालकेभ्यः बालिकाभ्यश्च निश्शुल्क-अनिवार्यशिक्षा संवैधानिकप्रतिबद्धता वर्तते। देशस्य संसदेन 2009 तमे वर्षे शिक्षाया अधिकाराधिनियमः पारितम्। येन 6 तः14 वर्षदेशीयेभ्यः सर्वेभ्यः बालेभ्यः शिक्षा मौलिकाधिकारत्वेन स्वीकृता। तथापि देशे अद्यापि आधारभूतशिक्षा सार्वभौमिकी न जाता। अभिप्रायोयं यत् बालानां विद्यालयेषु शतप्रतिशतं नामाङ्कनं स्कूलिंगसुविधाभिः युक्तानां प्रत्येकस्मिनन् परिवारे तस्य संख्यायाः विनियमनं च। अस्याभावस्य पूर्त्यर्थं सर्वकारेण 2001तमे वर्षे सर्वशिक्षा-अभियानयोजना आरब्धा या विश्वेस्मिन् बृहत्तमा योजना वर्तते।
सूचनाप्रौद्योगिक्याः युगेस्मिन् सूचनासंचारः विशेषतया ग्रामीमक्षेत्रेषु प्रौद्योगिकिशिक्षाक्षेत्रे वंचित-सम्पन्नसमुदाययोः भेदं न्यक्कर्तुं प्रयतमानो वर्तते। भारतविकासप्रवेशद्वारेण प्राथमिकशिक्षाक्षेत्रे भारते मौलिकशिक्षायाः सार्वभौमीकरणार्थं प्रचुरसमाग्रीः उपलब्धुं छात्राणां शिक्षकाणां च क्षमतावर्धनार्थं प्रथमतया प्रयासः कृतः।
बाल-अधिकारः अद्यत्वे सर्वाधिकवर्धमाना आवश्यकता वर्तते। यस्मिन् विषये जनेषु ज्ञानाभावः अस्ति। अस्मिन् भागे बाल-अधिकारे विशेषतयावधानकेन्द्रीयकरणस्योद्देश्यं बालानां अधिकारहनननिरोधः तेषामधिकारसंरक्षणं च वर्तते।
6 तः 14यावद्वर्षीयाणां प्रत्येकस्मै बालाय निश्शुल्क-अनिवार्यशिक्षाया अधिकारो वर्तते। अत्र 86संविधानसंशोधन-अधिनियमस्य अनुच्छेद 21ए नियोजितः तथाच अस्य कार्यान्वयनाय क्रियमाणानां सर्वकारीयप्रयासानां च सूचना अस्मिन् भागे निर्दिष्टा।
मल्टीमीडियासामग्र्याः विविधभागे विज्ञानखण्डादिरचनात्मकचिन्तनाधिगमप्रक्रियायां बालानां सक्रिययोगदानाय प्रोत्साहयति। अनेनैव प्रकारेण अन्योदाहरणान्यपि अस्मिन् भागे प्रदर्शितानि।
शिक्षणाधिगमप्रक्रियायाः अनेकमहत्वपूर्णतथ्यानि शिक्षार्थीजीवने अस्या उपयोगितां सिद्ध्यन्ति। विद्यार्थिनां व्यवहाराधिगमानुभवेन साकं विद्यार्थिनां समग्रविकासे कौशलसम्पन्नशिक्षकस्य कीदृशी भूमिका भवतीत्यस्य विवरणं अत्र भागे दीयते।
भागोयं मूल्याङ्कनान्तर्गतं अन्तर्जालीयसंसाधननैः स्रोतसाहाय्येन च गणितविज्ञानभूगोलस्य स्वमूल्याङ्कनप्रक्रियां प्रदर्शयन् राज्यानां तद्राजधानीनां भारतस्य नदीनां तद्वैशिष्ट्यं च ज्ञातुं अवसरं प्रयच्छति।
भागेस्मिन् बहुप्रतिभासिद्धान्तस्य व्याख्यां कुर्वन् बुद्धेः विविधप्रकार(शाब्दिकतार्किकादि)सन्दर्भे गार्नरस्य मनोवैज्ञानिकसिद्धान्तः प्रदर्शितः। अयं भागः निर्दिशति यत् प्रत्येकस्य व्यक्तेः अधिगमनशैल्यां, शिक्षायां तस्योपयोगेन सह विद्यालयेषु बहुप्रतिभासिद्धान्तस्यादाने अनेके लाभाः सन्ति।
कैरियरमार्गदर्शनं भविष्योद्धाराय साहाय्यम् आचरति। भागोयं पाठकेभ्यः उपलब्धविविधाध्ययनं तथा च दशमकक्षा-स्नातककक्षानन्तरं उपलभ्यमानानां व्यवसायायिकावसराणां सूचनां पुरस्सरीकृत्य तत्सम्बन्धिन्यः अन्याः सूचनाः ज्ञापयति।
भागेस्मिन् विविधविषयाः सूचनाप्रौद्योगिक्यां ज्ञानवर्धनपूर्वकं तन्माध्यमेन क्षमतानिर्माणे तस्यमहद्योगदानस्य विवरणं प्रस्तुवन्ति।
भागोयं शिक्षायां उपयोगिसर्वकारी-वैश्विकसंसाधन-प्रशिक्षण-आदानप्रदानयोग्यसंसाधन-बालाधिकार-प्रचारसंसाधनादीन् ज्ञापयन् शिक्षासमाचारस्रोतसां उपयोगितां च ख्यापयन् क्षेत्रेस्मिन् अन्ताराष्ट्रियाभिकरणानामपि सूचनां प्रयच्छति।
शिक्षायाः चर्चामञ्चः शिक्षासम्बद्धविविधविषयेषु स्वविचारप्रस्तुतेस्सह अन्यैस्सह स्वविचाराणां सूचनानामादानप्रदानस्यापि अवसरं प्रयच्छति।
Last Modified : 12/4/2020