অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

चलवाणीशासनम् (एम्-गवर्नेंस्)

चलवाणीशासनम् (एम्-गवर्नेंस्)

एम्-शासनम् ई-शासनस्य न तु प्रतिस्थापनं प्रत्युत् तस्य पूरकमेव। वेन्-इन्टरनेट्-मोबाइलकम्प्यूटिंग- प्रभृतिसूचनाप्रौद्योगिकीतकनीकेरुपयोगात् निजव्यवसाय-नागरिकसंगठनयोः विविधपरिवर्तनप्रवर्तनेन सह नागरिकसशक्तिकरणमपि अस्य उद्देश्यं वर्तते। अपरतः मोबाइल्-वायरलेस्-तकनीक्या शासनसेवायाः आपूर्तिः संसूचना च एम् - शासनस्योद्देशयम्। चलवाणी-एप्लीकेशन् गुणवत्तापूर्णसूचनाप्रौद्योगिक्याधारितां वित्तकोषकार्यालयसंरचनां तत्कार्यप्रणालीम् च अनुसरति।

चलवाणीशासनस्योपयोगिता-

अद्य चलवाणी लिखितध्वनिसन्देशयोः आदानप्रदानं यावदेव न परिसीमिता। इयं सम्पन्ननागरिक-वञ्चितग्रामीणवर्गयोः परिव्याप्तं अन्तरं निराकर्तुं शक्तिसम्पन्नतकनीकिः वर्तते। विविधक्षेत्रेषु सम्पर्काभावे, विद्युन्न्यूनतायां, न्यूनसाक्षरतायामपि सत्यां भारते चलवाणीशासनस्यारम्भिकयोः द्वयोः दशकयोः चलवाणी आदूरदूरं ग्रामं यावत् परिप्राप्ता जाता। अपरतः अनया व्यवसायहीनयुवकेभ्यः प्रत्यक्षपरोक्षव्यवसायावसरोपि प्रदत्तः।

ई- शासनस्य प्रवर्धमानां लोकप्रियतां पश्यन् चलवाण्या प्रयोगप्राचुर्यात्तस्या स्वीकार्यतां च विमृशन् भारतसर्वकारेण न केवलं नागरिकसेवाभिस्सह नैकमूल्यवर्धितसेवाप्रसारस्य निर्णयः अधिग्रहीत प्रत्युत् तस्यैव कार्यान्वयने च प्रयासरतः प्रवृत्तः सम्प्रति सर्वकारः।

अनया योजनया उपलब्धवायरलेस्- नूतनमीडियाप्रौद्योगिकी-चलवाणी-उपकरण-तदेप्लीकेशन्माध्यमैः नागरिकेभ्यः व्यापारिकेभ्यः च सार्वजनिकसूचनासर्वकारीसेवावितरणं प्रविहितम्। विशेषतया च ग्रामीणक्षेत्रेषु चलवाण्याः प्रसारात् तदनुप्रयोगाणां नवीनक्षमतायाः उपयोगात् समावेशीविकासस्यापि दिशा अनेन निर्धारिता।

Last Modified : 2/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate