অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

चलवाणी सेवा

चलवाणीसेवा-

भारतदेशे तन्नागरिकेषु चलवाणी विविधई-शासनसेवानां वितरकप्रणालीत्वेन उद्भूता।इयं उपभोक्तृभ्यः स्वीकृतौ सरलतां, साधारणं इन्टरफेस्-एप्स्-अधोभारणे(डाउनलोड) स्वतन्त्रतां, सरलप्रयोगावसरं च प्रयच्छति। अद्यापि यद्यपि प्रौद्योगिकदृशा नागरिकेषु एप्स्-प्रसारणे अनेके प्रश्नाः(अनेकाः समस्याः) विद्यन्ते, विशेषतया ग्रामीणक्षेत्रेषु चलवाणी-अनुप्रयोगाणां सम्भावितेषु परिप्राप्तौ प्रबलतमा समस्या वर्तते। तस्मादेव तथ्यमिदवधार्य तत्समाधानाय सर्वकारेण अनेके प्रयासाः विहिताः। तत्र चलवाणीएप्लीकेशन्-विकासाय, जनेषु च तस्य आपूर्तये तत्सम्बन्धिविविधविभागेभ्यः संस्थाभ्यश्च इलेक्ट्रानिक्-सूचना-प्रौद्योगिकीविभागेन अनेकाः योजनाः उद्घोषिताः। विभागनिर्धारितमुख्योपायाः सन्ति

  • वन्-वेब् इत्यस्यान्तर्गतं मोबाइलकंप्लाइन्टविकासाय सर्वे सर्वकारीयविभागाः संस्थाश्च निर्देशिता।
  • चलवाणीएप्लीकेशन्-इत्येतदर्थं स्पष्टमानकाः प्रयोक्तव्याः येन ई-शासनान्तर्गतं प्रवर्तितशासननीत्यनुसारं विनियोगानुसारं (एप्लीकेशन् के अनुसार) विविधसंचालनप्रणाली (ऑपरेटिंगसिस्टम)-उपकरणयोश्च पारस्परिकी अक्षुण्णता स्यात्।
  • यूनीफार्म/ सिंगलपूर्व-नामितसंख्यानां (दीर्घकूटं लघुकूटं च) उपयोगेन ।
  • सर्वकारिविभाग-संस्था-प्रदत्तसार्वजनिकसेवानां चलोपकरणैः प्रदानात् विकसित- एप्लीकेशन्-यावत् चलवाणीप्रयोगाय आनुकूल्यनिर्माणम्।

प्रारूपानुकूलं समयबद्धरीत्या उपरिनिर्दिष्टसेवाविकासाय तत्सहायकप्रारूपं विकासयन् च तत्कार्यान्वितिं निश्चयन् सर्वकारेण चलोपकरणैः सार्वजनिकसेवाः प्रापयितुं मोबाइल-सर्विस-डिलिवरी-गेटवे (MSDG) इत्यस्य विकासः कृतः।

चलवाणीसेवा एकीकृतमंञ्चं प्रददाति। येन चलोपकरणेषु सार्वजनिकसूचनावितरणं सर्वकारीसेवावितरणं च एसएमएस-यूएसएसडी-आईवीआरएस-सीबीएस-एलबीएस-चलअनुप्रयोगैश्च विधेयः।

चलवाणी सेवा - अद्यतन आवश्यकता-

चलवाणी-उपभोक्तृणां वर्धमानां संख्यां वीक्ष्य राष्ट्रिय-ई-शासनयोजनायां चलवाण्याः उपयोगितां च विमृशन् इदमनिवार्यं यत् प्रतिनागरिकाय सर्वकारीयसेवाः चलवाण्या सुनिश्चिताः स्युः। नागरिकसम्पन्नवर्गग्रामीणवञ्चितवर्गयोः व्याप्तं अन्तरं परिसमापयितुं अयं प्रबलतमः तकनीकिः।

एनएसडीजी-

ई-शासनएक्सचेंज् इत्यस्यान्तर्गतं विकसितः एनएसडीजी (राष्ट्रियई-शासनसेवाडिलिवरीगेटवे) चलवाण्या जनेषु सर्वकारीयसेवाप्रापणाय एसएसडीजी-(स्टेट ई-गवर्नेंस सर्विसेज डिलिवरी गेटवे)-डोमेनडोमेनगेटवे(यथा- पासपोर्टगेटवे, MCA21 गेटवे) इत्येतदर्थं सेवाप्रदातृभ्यश्च बहूपयोगी भवितुं शक्यते।

पृथगाधारभूतपरिकल्पनायां काश्चन आवश्यकताः निर्दिश्यन्ते-

  • वर्तमान ईएसएसडीजीद्वारा बैकएंडविभागेन सह सहजैकीकरणम्। एसडीजीशासनं शासनस्य एक्सचेंज .
  • चलवाण्याधारितसेवा यथा- (लघुसन्देशसेवा- एसएमएस), यूएसएसडी (असंरचितपूरकसेवाडेटा), आईवीआरएस (इंटरऐक्टिववॉयसरिस्पांससिस्टम) सीबीएससेल ब्रॉडकस्टिंगसर्विस) एलबीएस (स्थान आधारितसेवाएँ)इत्यादीनां कृते साधारणान्तर्मुखं (जनरलइन्टरफेस्) प्रापयिष्यति।

चलवाण्याधारिताः सेवाः

सेवाप्रदाता

उपलब्धसेवा

किसानकॉलसेन्टर्

कृषिसम्बन्धिप्रश्नोत्तराणि

कृषिविभागः मध्यप्रदेशसर्वकारः

कृषिपुष्पकृषिदुग्धमत्स्यपशुरोगसम्बन्धिप्रश्नानां समाधानम्

कृषिविभागः,हरियाणासर्वकारः

कृषकाणां कृषिसम्बन्धिसमस्याः

ग्रामीणविकासमन्त्रालयः भारतसर्वकारः

राष्ट्रियग्रामीणनिश्चितोद्यमयोजनासम्बन्धिपरिवादः सूचना वा

केन्द्रीयान्वेषणब्यूरो, हिमाचलप्रदेशः

भ्रष्टाधिकारिणां विरुद्धः परिवादः

केन्द्रीयान्वेषणब्यूरो, आन्ध्रप्रदेशः

केन्द्रीयसर्वकार-राष्ट्रियकृतवित्तकोष-सार्वजनिकक्षेत्रनिगमान्तर्गतोत्कोचग्राहककर्मचारिणां विरुद्धः परिवादः

सामाजिककल्याणश्रमकल्याणविभागः, राष्ट्रियराजधानीक्षेत्रसर्वकारः

बालभिक्षुकाणां रक्षा

भारतीयरेल्

रेलवेकर्मचारिणः उत्कोच-भ्रष्टाचारसम्बन्धिपरिवादः

भारतीयरेल्

पीएनआर-स्थितिनिरीक्षणम्, वर्तमानरेलस्थितिः, उपलब्धसुविधाः, भाटकसम्बन्धिप्रश्नाःच

जानकारी, बिहारसर्वकारः

सूचनायाः अधिकारः, प्रथमद्वितीयनिवेदनं तत्सम्बन्धिसूचनाः परिसंवादो वा

केन्द्रीयमाध्यमिकशिक्षापरिषद्

10-12तमकक्षयोः अक्षमछात्राणां कृते परीक्षासम्बन्धिप्रश्नाः

केन्द्रीयमाध्यमिकशिक्षापरिषत्

10-12कक्षयोः परिणामः

राज्यपूर्वविश्वविद्यालयविभागः,कर्नाटकसर्वकारः

12 तमायाः कक्षायाः छात्राणां अभिभावकेभ्यः परीक्षासम्बन्धिपरामर्शः

रेलवेभर्तीबोर्ड्,चेन्नई

आवेदनपत्रस्य स्थितिः, विज्ञापने प्रदत्तपदेभ्य योग्यता परीक्षापरिणामश्च

एमरजेन्सी मैनेजमेन्ट रीसर्च इन्स्टीट्यूट्, हैदराबादः

रोगिभ्यः चिकित्सकीयसहायता

स्वास्थ्यविभागः

रोगिभ्यः ऐम्बुलेन्स् स्वास्थ्यसहयोगश्च

भारतीयसर्वोच्चन्यायालयः

याचिकाकर्ता-अधिवक्तृसम्बन्धिसूचना, सर्वोच्चन्यायालये लम्बितप्रकराणां चलवाण्या सूचना आप्तुं शक्यते।

दिल्ली राज्यविधिकसेवाप्राधिकरणम्

न्यायिकपरामर्शः सहायता च

केरलराज्यविधिकसेवाप्राधिकरणम्

न्यायिकपरामर्शः सहायता च

वृहन्मुम्बईनगरनिगमः

विंशतिसहस्रराशिपर्यन्तं सम्पत्तिकरस्य जलकरस्य च निस्तारः

डा.एसएमएस, कोझिकोडः,केरलम्

दिवसे कस्मिंश्चदपि समये समीपस्थ रुग्णालय-औषधालय-स्वास्थ्यकेन्द्रसम्बन्धिसूचनाः। प्रणालीयं मण्डले विशेषज्ञचिकित्सकानां सूची-रक्तकोश-डायग्नॉस्टिककेन्द्र- निजरुग्णालय-विशेषज्ञकेन्द्र-ऑपरेशन्- वेंटिलेटरप्रभृतिसूचनाः प्रददाति।

गुडगाँव पुलिस, हरियाणासर्वकारः

भये प्राणभये च पुलिससहायता

जनसंख्यास्थिरताकोषः

प्रजननस्वास्थ्य-परिवारनियोजन-बालस्वास्थ्यविषयेषु हिन्दी-आङ्ग्लभाषायां परामर्शसहायता उद्बोधश्च।

Last Modified : 1/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate