অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

पशुः स्वस्थश्चेत् आयः अपि सुलभः

पशुः स्वस्थश्चेत् आयः अपि सुलभः

रत्येकस्मिन् काले पशुपालनम् अतीव उत्तमव्यवसायत्वेन प्रतिष्ठितम्। कृषकाः सामान्यतः पशुपालनं कुर्वन्त्येव परन्तु सामान्यव्यवसायी उत अनुद्योगिनपि इदं अङ्गीकर्तुं शक्नोति। पशुपालनेन उत्तमादुत्तमतरः आयः सम्भाव्यते।

परिचयः

अस्माकं देशे अधिकांशतः कृषकाः कृषिकार्येण सह गोपालनमपि कुर्वन्ति। येन अधिकं धनागमो भवति। गोभ्यः अधिकदुग्धादानं प्रत्येकस्य कृषकस्योद्देश्यं भवति। परन्तु केचन कृषकाः गोभ्यः तेषां सामर्थ्यानुसारं दुग्धं दोग्धुम् असफलाः भवन्ति। तथा तेषां गौमहीष्यादयः अपि स्वस्थाः हृष्टपुष्टाः न भवन्ति। अधिकांशतः गावो महिष्यादयः अक्टूबरनवम्बरमासयोः सन्ततिं जनयन्ति। सामान्यतः गावः महिषयः प्रजनने प्रागुक्तावधेः अधिकं समयं गृह्णन्तु चेत् तत्कालमेव पशुचिकित्सकः परामर्शनीयः। यदि जन्मतः 30निमेषानन्तरं गोः महिष्याः वा नवजातशिशोः (वत्सः, वत्सतरी या कटरा कटड़ा) श्वासक्रिया न प्रचलति तदा कृत्रिमश्वासाय (आर्टिफिशियलश्वास) नवजातस्य वक्षं शनैःशनैः नोदय पश्चाद्वर्तिभागश्च उपरि उत्थापय। अनेन शिशोः श्वसनक्रिया आरभते।

नवजातशिशु जन्मात् 2-3 होरानन्तरं प्रथमं गोमयं करोति। यदि नवजातः जन्मस्य 2-3 होरानन्तरं गोमयं न करोति तर्हि तस्मै 30मिलीलीटरमात्रायां एरण्डतैलं पाययितव्यम्। नवजातस्य शरीरे (प्रसवानन्तरं) श्लिष्टं रजपदार्थं सामान्यतः माता लिह्य शोधयति। यदि सः पदार्थः माता शुष्ठुतया न स्वच्छीकरोति तर्हि स्वच्छवस्त्रेण प्रोञ्छयेत्।

सामान्यतः गौः प्रसवात् 2-4-होरानन्तरं जेरं ददाति परन्तु यदा कदा 8-12 होरायावत् अवधिरपि जेरप्रदाने गृह्णाति। यदि गौः 8-12-होरावधिमतिक्रम्यापि जेरं न पातयति तस्याभिप्रायोऽयं यत् जेरं क्वचित् अवरूद्धं वर्तते इति। अस्यां परिस्थितौ पशुचिकित्सकेन उत केनचित् कुशलेन गर्भाशये फ्यूरियाप्रभृतिः औषधिः निषेचयितव्या। यदि गौः 30-होरानन्तरमपि जेरं न पातयति तदा पशुचिकित्सकेन तन्निसारणीयं भवति। प्रसूतायै गवे महिष्यै वा प्रथमपञ्चदिवसपर्यन्तं 100-मिलीलीटरमात्रायां गर्भाशयस्वच्छतायै औषधिः प्रतिदिवसं वारद्वयं देयम्।

शिशोः (वत्सः वत्सतरी अथवा कटिया,कटरा) जन्मानन्तरमेव नाभौ पूतिरोधकः (एंटिसेप्टिक्) अर्थात् टिंचर-आयोडीन-डेटाल-हरिद्राचूर्णः लेपनीयः।

नवाजातशिशवे प्रथमदुग्धं (खीस, पेवसी) शीघ्रमेव पाययेत्। प्रथमदुग्घस्य मात्रा शिशोः शरीरस्य दशमांशतुल्या भवेत् अर्थात् यदि शिशोः भारः 10-किलोग्रामेति स्यात् तर्हि 1-लीटरमात्रायां प्रथमदुग्घं देयम्। 30 किलोग्रामभारे 3 लीटरदुग्धं देयम्। प्रथमदुग्घं शिशुं रोगात् त्रायते। अनेन च शिशौ रोगप्रतिरोधकशक्तिरपि समुपजायते। प्रथमदुग्घपानेन च शिशुः शैशवादेव स्वस्थो भवति।

अक्टूबरनवम्बरमासे शीतस्यारम्भो भवति अतः शिशुना सह प्रसूता माता संरक्षणीया। शिशुस्वास्थ्याय अब्जरोगाद्रक्षार्थं च समये समये 30-40 मिलीलीटरमात्रायां एरण्डतैलं पाययितव्यम्।

यदा बालकस्य आयुः 3-मासः भवेत् तर्हि खुरपकामुँहपका-इत्येतस्माद्रोगात् त्रातुं तस्मै सूच्यौषधं (इंजेक्शन्) प्रदातव्यम्। मईजूनमासे 6-मासादधिकायोः पशवे खुरपका-मुँहपका-गलघोंटू-लंगरियाप्रभृतिरोगात् त्राणाय सूच्यौषधं (इंजेक्शन्) देयं भवति।

गवे महिष्यै च प्रति 3-2.5किलोग्रामदुग्धानुपातेन 1-किलोग्रामखाद्यं दातव्यम्। या गावः महिष्यश्च दुग्घं न प्रयच्छन्ति ताभ्यः प्रतिदिनं 1-किलोग्राममात्रायां खाद्यं देयम् भवति। गोभ्यः महिषीभ्यः च 70-प्रतिशतं हरिततृणं देयम्। यस्याः गोः भारं 100-किलोग्रामिति अस्ति तस्यै 2.5-किलोग्रामशुष्कं खाद्यं तथा महिष्यै च 3किलोग्रामशुष्काहारः आवश्यकं वर्तते। अस्मिन् स्वद्वितीयं तृणं स्वतृतीयभागं च दाना इति देयम्।

हरिततृणे न्यूनतमं 11-12-प्रतिशतं प्रोटीनतत्वं भवेत् डेन-मध्ये 18-20-प्रतिशतं प्रोटीनतत्वम् आवश्यकं वर्तते।सर्वेभ्यः पशुभ्यः सन्तुलितमात्रायां प्रोटीनतत्वं अवश्यं देयम्। पशुभ्यः सन्तुलितमात्रायां खाद्यं दाना-तृणं दिने द्विवारं 8-10-होरानन्तरं दातव्यम्। एतदतिरिक्तं द्विवारं 8-10-होरान्तराले शुद्धं जलं देयम्। षष्ठमासे गर्भिणिमहिष्यै 1.5-किलोग्रामखाद्यं (दाना) पृथक्तया देयम्। दुधारुपशुभ्यः प्रतिदिनं न्यूनतमं 5-किलोग्राममात्रायां हरिततृणमवश्यं दद्यात्। शीतकाले बरसीम –इति सर्वोत्तमः आहारः भवति।

पशोः खाद्ये द्विप्रतिशतं खनिजतत्त्वमिश्रणमवश्यं मेलयितव्यम्। पशुभ्यः अधिकं दुग्घमादातुं तेषां च दीर्घस्वास्थ्यसंरक्षणार्थं तेभ्यः सन्तुलितमात्रायां चर्वणीयम् (खाद्यं) अनिवार्यं भवति। सन्तुलितचर्वणीये खनिजलवणेन सह पोषकतत्त्व-प्रोटीन-विटामिनप्रभृतीनां निर्धारितमात्रा निविष्टा भवति। सन्तुलिताहारकल्पनाय सूत्रं ज्ञातुम् आहारविशेषज्ञेन सह सम्पर्कः करणीयः। सन्तुलिताहारः गृहेऽपि परिकल्पयितुं शक्यते। आहारनिर्माणे उत्तमगुणवत्तायाः अन्न-(यव-कनक-ज्वारप्रभृतिः)-तैल-खली-(सर्षप-मूँगफलीप्रभृतीनां खली)-ग्वारमल-शीरा-लवण-खनिजमिश्रण-विटामिनप्रभृतीनां सन्तुलितमात्रायां प्रयोगः क्रियते।

विशिष्टडरोक्षेत्रे

पूरक-आहारः(सप्लीमेंट राशन) दीयते। पशुशरीरे यदल्पता जायते, पूरक-आहारप्रदानेन तन्निराक्रियते। दीर्घावधियावत् च पशोः स्वास्थ्यं वर्धते दुग्धसम्पन्नो च भवति। पूरक-आहारे खनिजमिश्रण-फीड-एडिटिव-बाइपासप्रोटीन-बीकाम्प्लेक्सप्रभृतीनि तत्त्वानि समाह्रियन्ते। अनेकाः व्यक्तिगतसंस्थाः पूरक-आहारस्य विक्रयं कुर्वन्ति। तर्हि तासां पूर्णं ज्ञानं प्राप्य स्वस्य पशवे पूरक-आहारः देयम्।

लघुयुवपशूनां शरीरस्य अन्तःबाह्यं कीटाः(इन्टर्नल एवं एक्सटर्नल पैरासाईट) क्षयं कुर्वन्ति। पट्टिकाकृमि-वर्तुलकृमि-परकृमिप्रभृतयः अन्तःकीटाः पशूनाम् उदरे निवसन्तः तस्याहारं रक्तं च भुञ्जन्ति। यूका-किल्ली-पिस्सूमाइटप्रभृतयो बाह्यकीटाः शरीरस्य बाह्यभागे निवसन्ति तथा च तस्य रक्तं चूषन्ति।

बाह्यान्तरिकाः द्विविधाः एव कीटाः पशूनां स्वास्थ्यं हरन्ति। यस्मात् पशूनां दुग्धदानक्षमता न्यूनीभवति। तथा च ते असमयमेव निशक्ताः अस्वस्थाः सन्तः अकालमृत्युं प्राप्तुं शक्नुवन्ति। पशूनाम् आन्तरिककीटान् हन्तुं कृमिनाशक-औषधं यथा- फेंटास-एल्बामोर-पैनाखूरप्रभृतयः उपयुक्तमात्रायां पशुचिकित्सकपरामर्शेन देयम्। बाह्यकीटान् हन्तुं च ब्यूटाक्सऔषधं 1-लीटरजले 2-मिलीलीटरमात्रायां अनुपातेन विलयनं कृत्वा पशुशरीरे सम्यक्तया लेपनीयम् परन्तु औषधिलेपनात् पूर्वं पशोः मुखे ‘मुचका’ अवश्यं बन्धनीयं तस्माद् पशुः औषधं लेढुं न शक्नुयात्।

पशूनां गोमयस्य प्रयोगः उपलनिर्माणे न कथञ्चित् कर्यात्। भूमिं खनित्वा तत्र गोमयः निक्षिप्य तस्मात् उर्वरकं निर्मीयात्। येषां पशुपालकानां कृषिभूमिर्नास्ति ते गोमयनिर्मितोर्वरकं उत्तमविक्रयमूल्ये विक्रेतुं शक्नुवन्ति जैविककृषौ गोमयनिर्मितोर्वरकस्य अतिमहती आवश्यकता भवति।

दुग्धोत्पादनाय सर्वदैव प्रभूतदुग्धप्रदातृजातीयाः एव पशवः पालनीयाः। गासु साहिवाल-हरियाणा-करनस्विस-करनफ्रिजप्रभृतयः महिषीसु च मुर्रा-मेहसानाप्रभृतयः जातयः धनदृष्ट्या लाभप्रदात्र्यः भवन्ति। दुग्धप्रदातृपशुक्रयात् प्राक् तस्य जाति-दुग्धदानसामर्थ्यादीनां विवेचनम् अवश्यं करणीयम्। पशुवंशावली अपि द्रष्टव्या अर्थात् तस्या माता-मातामही-प्रमातामह्यादयः कियत् दुग्घं प्रददाति स्म। एतदतिरिक्तं स्वक्षेत्र-सुविधामधिकृत्य अपि पशुचयनं करणीयम्।

पशुशाला सर्वदा तत्रैव निर्मातव्या यत्र वृष्टिजलं न पूर्यते। स्थानं च शुद्धवायुयुक्तं स्वच्छं च भवेत्। पशुशालायाः भूमिः इष्टिकानिर्मित-रुक्षं च भवेत्। गोमयं च पशुशालातः उत्थाप्य दूरस्थे कूपे निक्षेप्तव्यम्। पशुशालायाः जलनिकासव्यवस्था अपि सुष्ठु स्यात्। पशुशालायाः समीपं दूषितजलं न स्थिरीभवेत्। पशुशालायां मक्षिकामशकेभ्यः सुरक्षायाः व्यवस्था अपि कुर्यात्। शीतोष्णवृष्टिभ्यः पशूनां त्राणाय पशुशालायां सुरक्षोपायाः करणीयाः। अवधेयं यत्पशुभ्यः काचिदपि समस्या न स्यात्।शीतर्तौ पशुशालायां आसनार्थं तृण-काष्ठचूर्ण-शुष्कपर्ण-ईक्षुपत्राणि प्रयोक्तव्यानि। आसनस्य आद्रे सति गोमयेन सह उर्वरकस्य कूपे निक्षेप्तव्यम्। प्रतिदिनं शुष्क-आसनम् एव प्रयोक्तव्यम्। एतानि तथ्यानि अवधेयानि-

  • पशूनाम् अफारारोगात् त्राणाय 1-लीटरमात्रात्मके मृदुतैले 200-ग्रामकृष्णलवणं 100-ग्रामखाद्यसोडा 30-ग्राम-अजवाईन् 20-ग्रामहिंगुश्च मिश्रीकृत्य देयम्। अफारातः सुरक्षार्थम् अधिकं बरसीम-कनक-आहारं न देयम्।
  • पशून् थनैलारोगात् त्रातुं पशुशाला सर्वदैव स्वच्छा शुद्धवायुयुक्ता च स्यात्। समये समये थनैलारोगाय दुग्धपरीक्षणं कारयितव्यम्। थनैलापरीक्षणार्थं 1-चषकजले 1-चमसपरिमाणं धौतफेनस्य(सर्फ) विलयनं कृत्वा 5चमसपरिमाणे दुग्धे मेलयेत्। यदि दुग्धं अर्द्धद्रव्यरूपे परिवर्तते तर्हि निश्चीयते यत् पशुः थनैलारोगग्रस्तः वर्तते इति। थनैलारोगे सति तत्कालमेव पशुः चिकित्सकं प्रति नेतव्यः।
  • थनैलारोगात् त्राणाय दुग्धदोहनात् प्राक् तदनन्तरं च स्तनं स्वच्छजलेन प्रक्षाल्य स्वच्छशुष्कवस्त्रेण प्रोञ्छयेत्। दोग्धुः नखाः न दीर्घाः स्यु। पशुशाला च सुखदा स्यात्।
  • सर्वदा उच्चजातीयगौमहिष्यादयः पालनीयाः। मादां गर्भिणीं कारयितुं च उच्चकोटेः वृषभस्य वीर्यं कृत्रिमगर्भाधानाय स्वीकरणीयम्।
  • कटिया-वत्सतरीं सङक्रमण-गर्भपातात् त्रातुं सूच्यौषधं (इन्जेक्शन्) दापयेत्। पशुभ्यः उदरकृमिनाशकौषधं प्रतिमासे षष्ठमासे एकवारं देयम्।
  • यदा कटियावत्सतर्याः भारः 250किलोग्राम-यावत् स्यात् तदा समये गर्भधारणाय तस्यै 50ग्रामखनिजलवणं 1-चमसं कोलायडल-आयोडीनतत्त्वं 125-ग्रामाङ्कुरितान्नं च द्विमासं यावत् देयानि। कटियावत्सतर्याः स्वच्छतायाम् अपि पूर्णम् अवधानं दद्यात्।

 

स्रोतः- फार्म एन फूड / जेवियर-समाज-संस्थानम्, रांची।

Last Modified : 1/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate