गृहे / कृषिः / मत्स्यपालनम् / मत्स्यपालनं कथं करणीयम्
विचारं
Views
  • राज्यम् : Open for Edit

मत्स्यपालनं कथं करणीयम्

भागेऽस्मिन् मत्स्यपालनसम्बन्धितसूचनाः प्रस्तुताः।

मत्स्यपालनस्य सिद्धता

मत्स्यस्य हेतोः तडागस्य सिद्धिः वृष्टेः पूर्वमेव करणीयं तदेव युक्तम्। मत्स्यपालनं सर्वविधेषु लघुविशाल-कालिक-वर्षपूरितेषु तडागेषु सम्भाव्यते। एतदतिरिक्तम् एतादृशाः सराः यत्र सिघाडा-कमलगट्टा-मुरार(ढसे)प्रभृतयः अन्यजलीयवनस्पतयः अपि गृह्यन्ते, तस्मात् तडागस्य मृत्तिकायाः जलस्य च उर्वरता वर्धते। परिणामतः सस्योत्पादनमपि वर्धते। एतद् वानस्पतिकसस्यावशिष्टं यत् तडागस्य जले दूषितं निर्गलितं जायते तत् जलस्य मृत्तिकायाश्च उर्वरतां वर्धयति। तस्मात् मत्स्यानां कृते सर्वोत्तमः प्राकृतिकः आहारः प्लैकटान् इति (प्लवकः) जायते। अनेन द्वौवेव परस्परं पूरकौ भवतः, परस्परं च उत्पादनवर्धने सहाय्यमाचरतः। शस्यक्षेत्रेषु यत्र जून-जुलाईतः अक्टूबर-नवम्बरपर्यन्तं जलं पूरितं भवति, तत्र मत्स्यपालनं कृत्वा आयोपलब्धिः कल्पयितुं शक्यते। शस्यक्षेत्रेषु मत्स्यपालनाय पृथग्रूपतया सिद्धेः आवश्यकता भवति।

कृषका स्वक्षेत्रेभ्यः उत्कृष्टोत्पादनमवाप्तुं क्षेत्रं कर्षति, क्षेत्रं यथासमयम् आवश्यकतानुसारं शोधयति, शस्यनाशकपादन् च उत्खातयति, खाद्यम् एवम् उर्वरकं प्रदाय भूमिं च सज्जीकरोति एवं समये आगते बीजानि वपति। बीजाङ्कुरणानन्तरं तस्य परिचर्यां करोति निदाई-गुडाई-इत्ममुं नियमेन करोति आवश्यतानुसारं च नाइट्रोजन-स्फूर-पोटाश-उर्वरकं प्रयुनक्ति। उचितसमये पादपरोगाणां निवारणाय औषधीयप्रयोगं करोति। एवमेव मत्यस्यानाम् उत्तमोत्पादनमवाप्तुं मत्यस्यकृषौ अपि एतान् क्रियाकलापाः अत्यावश्यकाः।

कालिकतडागेषु मांसाहारि-क्षुद्रप्रजातीयमत्स्यानां सम्भावना न विद्यते तथापि वार्षिकतडागेषु एताः सम्भाव्यन्ते। अतः जूनमासे निम्नतमजलस्तरे सति एतादृशेषु तडागेषु पुनः पुनः जालनिक्षेपणं कृत्वा हानिकारकमत्स्यकृमिकीटादयः तेभ्यः निक्षेप्तव्याः। यदि तडागे पशुप्रभृतयः जलं पातुं नागच्छन्ति तर्हि एतादृशान् मत्स्यान् हन्तुं 2000-तः2500-किलोग्राम-प्रतिहेक्टयर-प्रतिमीटर-अनुपाते मधूकखली प्रयोक्तव्या। मधूकखलीप्रयोगात् जलजीवाः म्रियन्ते।

तथा च मीनाः मृत्योरनन्तरं जलमुपरि आगच्छति। यदि अस्मिन्नेव समये एते गृह्यन्ते तर्हि पाकाय विक्रयाय च प्रयोक्तुं शक्यते। मधूकखलीप्रयोगे अवधेयं यत् प्रयोगानन्तरं तडागे 2-3सप्ताहं यावत् निस्तारणे उपयोगः न करणीयः। मधूकखलीप्रक्षेपणस्य त्रिसप्ताहानन्तरं तथा च कालिकत़डागेषु जलपूरणात् प्राग् 250-300-किग्रा-प्रतिहेक्टेयर-अनुपातेन सुधा निक्षेप्तव्या। तस्माद् जलकृमिकीटादयो म्रियन्ते। सुधा जलस्य पीएचस्तरं नियन्त्रीकरोति जलं च स्वच्छीकरोति। सुधानिक्षेपणस्य एकसप्ताहानन्तरं तडागे 10,000-किग्रा-प्रतिहेक्टेयर-प्रतिवर्षमानात् गोमय-उर्वरकम् अपि निक्षेप्तव्यम्। येषु तडागेषु क्षेत्रजलम् आगत्य निमज्जति तत्र गोमय-उर्वरकस्य मात्रा न्यनीकर्तुं शक्यते यतोहि अमुष्मिन् जले पूर्वत एव पर्याप्तमात्रायाम् उर्वरकम् उपलब्धं भवति। तडागीयजलस्य आगम-निकासद्वारे जालस्य उचिता व्यवस्था अवश्यं करणीया। तडागे मत्स्यबीजनिक्षेपणात् प्राक् निरीक्षणीयं यत् तडागे प्रचुरमात्रायां मत्स्यानां कृते प्राकृतिकः आहारः (प्लैंकटान्) सुलभः स्यात्। तडागे प्राकृतिकाहारस्य (प्लैंकटान् इत्यस्य) पर्याप्तमात्रां कर्तुमावश्यकं वर्तते यत् गोमयोर्वरकेन सह 300-किग्रासुपरफास्फेट्-180किग्रायूरिया-प्रतिवर्ष-प्रतिहेक्टेयरमानेन प्रदातव्यम्। अतः समग्रे वर्षे निर्धारितमात्रायां (10000किलो-गोमयोर्वरकम्, 300किग्रा-सुपरफास्फेट्, 180 किग्रा-यूरिया च) 10मासिकभागतया समानमात्रायां देयम्। अनेन प्रतिमाहं 1000किलो-गोमयः-30किग्रा-सुपरफास्फेट्-18किग्रा-यूरिया-इत्येतेषामुपयोगः तडागे प्रचुरमात्रायां प्लैंकटानुत्पत्तये साहायकं भवति।

मत्स्यबीजसंचयनम्

सामान्यतः तडागे दशसहस्रं (10000) ‘फ्राई’ अथवा पञ्चसहस्रं (5000) ‘फिंगरलिंग’-प्रतिहेक्टर-अनुपातेन संचेतव्यम्। अनुभूयते यत् एतस्मात् न्यूनमात्रायां संचयनात् जले उपलब्धभोजनस्य पूर्णोपयोगः न भवति तथा अधिकसंचयेन सर्वेभ्यः मत्स्येभ्यः पर्याप्तभोजनं नोपलभ्यते। तडागे उपलब्धभोजनस्य समुचितोपयोगाय कतलामीनः उपरिभागे रोहूमत्स्यः मध्ये म्रिगलमीनश्च तले उपलब्धं भोजनं गृह्णन्ति। अनेन प्रकारेण त्रिप्रजातीनां मत्स्यबीजसंचयनेन तडागस्य जलस्तरे उपलब्धभोजनस्य समुचितः उपयोगः भवति अनेन च अधिकाधिकं उत्पादनमपि लभते।

पालनयोग्यप्रमुखसफरमत्स्यान् (कतलारोहूम्रिगल) अतिरिच्य कस्याश्चन वैदेशिकप्रजातेः मीनानाम् (ग्रासकार्प-सिल्वरकार्प-कामनकार्प-प्रभृतीनाम्) अपि सञ्चयनम् अद्यत्वे प्रचलितं वर्तते। अतः दैशिकवैदेशिकप्रजातेः मीनानां बीजं मिश्रितमत्स्यपालनान्तर्गतं सग्रहीतुं शक्यते।

वैदेशिकप्रजातेः एताः मीनाः दैशिकप्रमुखसफरमत्स्येभ्यः न कथञ्चित् प्रतिस्पर्धन्ते। सिल्वरकार्पमत्स्यः कतलामीन इव जलस्य उपरितलात् ग्रासकार्पमीनः रोहू इव स्तम्भात् कामनकार्पमीनश्च म्रिगलमीन इव तडागस्य तलात् भोजनं गृह्णन्ति। अतः समस्तानां षट्प्रजातीयानां मत्स्यबीजसञ्चयने सति कतला-सिल्वरकार्प-रोहू-ग्रासकार्प-म्रिगल-कामनकार्पमत्स्यानां 20:20:15:15:15:15 इत्यनेन अनुपातेन सञ्चयनं करणीयम्। सामान्यतः मत्स्यबीजं पालिथिनपुटके जलं पूर्य किञ्चित् आक्सीजन्वायुः मिश्रीकृत्य पुटीक्रियते। तडागे मत्स्यबीजनिक्षेपणात् प्राक् उक्तपुटकं किञ्चित्कालाय तडागजले स्थापनीयम्। तदुपरान्तं च तडागस्य किञ्चिज्जलं पुटके प्रवेश्य समतापनाय (एक्लिमेटाइजेद्गान्) वातावरणनिर्माणं करणीयम्। तदनु पुटकस्थ मत्स्यबीजानि शनैः शनैः तडागजले प्रवाहयितव्यानि। अनेन मत्स्यबीजानां उत्तरजीवितावृद्ध्यर्थं सहायता लभते।

अतिरिक्तः आहारः

मत्स्यबीजसंचयोपरान्तं यदि तडागे मत्स्यभोजनं न्यूनं भवेत् उत मत्स्यानां वृद्धिः न्यूना भवति तर्हि धान्य-(कनकीमिश्रित राईसपालिस)-सर्षप-कलायफलिका च प्रायशः1800 तः2700 किलोग्राम-प्रतिहेक्टेयर-प्रतिवर्षमानात् देया भवति।

इदं भोज्यं प्रतिदिनं एकस्मिन् निश्चितकाले देयं तस्मात् मत्स्याः अपि समयेन एव तद्भोक्तुं प्रवर्तन्ते। एवम् आहारोऽपि न व्यर्थीभवति। उचितं स्यात् यदि खाद्यपदार्थः स्यूतेषु परिपूर्य दण्डसाहाय्येन तडागे अनेकत्र निबद्ध्नीयात् तथा स्यूतेषु सूक्ष्मसूक्ष्मानि छिद्राणि कुर्यात्। अवधेयं यत् स्यूतस्य अधिकांशभागः जलमग्नः स्यात् आशिकं च भागः जलोपरि भवेत्।

सामान्यपरिस्थितीषु प्रचलितपुरातनपद्धत्या मत्स्यपालनात् 500-600 किलो-प्रतिहेक्टेयर-प्रतिवर्षम् उत्पादनं भवति अपरतः आधुनिकवैज्ञानिकपद्धत्या मत्स्यपालनात् 3000-5000किलो/हेक्टर/प्रतिवर्षं मत्स्योत्पादनं सम्भाव्यते। आन्ध्रप्रदेशे अनया एव पद्धत्या मत्स्यपालनेन 7000 किलो/हेक्टर/वर्षं यावत् उत्पादनं भवति।

मत्स्यपालकैः प्रतिमाहं जालनिक्षेपणेन सञ्चितमत्स्यानां वृद्धिर्निरीक्षणीया भवति तस्मात् मत्स्येभ्यः प्रदेयस्य परिपूरकाहारस्य मात्रानिर्धारणे सौकर्यं भवति सञ्चितमत्स्यानां च वृद्ध्यनुपातः अपि ज्ञातो भविष्यति। यदि कश्चन रोगः दृष्टिपथमायाति तर्हि तत्कालमेवोपचारः देयः।

2.63636363636
स्वीयटिप्पणीः योजयतु

यदि कापि टिपाणी भवत्पक्षतः स्यात् तर्हि अत्र प्रस्तौतु

Enter the word
Back to top