गृहे / कृषिः / धान्योत्पादनम् (फसल) / जलवायुसम्बन्धिज्ञानम्
विचारं
Views
  • राज्यम् : Open for Edit

जलवायुसम्बन्धिज्ञानम्

भागेऽस्मिन् जलवायुसम्बन्धिविविधसूचनाः अन्तर्निहिताः।

भारते कृषिजलवायुवर्गीकरणम्

भागेऽस्मिन् कृषिसम्बन्धिजलवायुवर्गीकरणस्य सूचना तदुपयोगितादृष्ट्या प्रदर्शिता। वर्णकुञ्जिका- भारतस्य कृषिजलवायविकवर्गीकरणम्- प्राकृतिकवनस्पतयः भारतस्य कृषिजलवायविकवर्गीकरणम्- Agro Climate Zones in India, भारतस्य कृषिजलवायविकवर्गीकरणम्- एन.ए.आर.पी.,भारतस्य कृषिजलवायविकवर्गीकरणम्- कृषिजलवायुक्षेत्रम्, भारतस्य कृषिजलवायविकवर्गीकरणम्- मृत्तिकासर्वेक्षणं भूम्युपयोगयोजना राष्ट्रियब्यूरो, भारतीयकृषिजलवायविकवर्गीकरणम्—योजना-आयोगेन प्रदत्तकृषिजलवायुक्षेत्रम्, भारतस्य जलवायविकवर्गीकरणं- राष्ट्रियकृषि-अनुसन्धानपरियोजना।

नवीनानुवंशिक-तनावविकासे अतिप्रभाविकृषिपद्धतीनां विकासाय च विविधकृषिजलवायविकसूचनाः आवश्यकाः वर्तन्ते। इदं न केवलं वृष्टिं वायुमण्डलीयतापमानम् आर्द्रतां च प्रत्युत् विकिरण-वाष्पन-मृत्तिकार्द्रताप्रभृतीन् अपि सम्बद्ध्यति।

किं नाम कृषिजलवायुक्षेत्रम्

कृषिजलवायुक्षेत्रं प्रमुखजलवायुसन्दर्भे भूमिसम्बन्धि-एककः वर्तते यः निश्चितसीमायां शस्यप्रकारेभ्यः कृषकेभ्यः उपयुक्तं भवति। अस्योद्देश्यं प्राकृतिकसंसाधनानि पर्यावरणस्थितिं च अप्रभावयन् भोजन-तन्तु(फाइबर)-तृण-काष्ठप्रभृतिभ्यः प्राप्तस्य ईँधनस्य निरन्तरोपलब्धता एवं चैतेषां क्षेत्रीयसंसाधनानां वैज्ञानिकं प्रबन्धनं वर्तते। कृषिपारिस्थितिकिक्षेत्रजलवायुः मुख्यतः मृत्तिकाप्रकार-कृष्युत्पादन-वर्षा-तापमान-जलोपलब्धता-वनस्पतिप्रभावककारकान् आधृत्य अवगम्यते। (एफ.ए.ओ.1983) प्राकृतिक-मानवनिर्मितयोः उपलब्धयोर्द्वयोरेव संसाधनयोः वैज्ञानिकोपयोगः कृषिजलवायविकयोजनायाः लक्ष्यम् इति।

भारतस्य कृषिजलवायुक्षेत्राणां योजना – 329 लक्षहेक्टेयर्-भौगोलिकक्षेत्रेण सह देशः कृषिजलवायुस्थितीनां अतीवजटिलसंख्याः प्रस्तौति। देशे कृषिजलवायवीयसूचनानां प्रस्तुतीकरणाय सम्प्रति पर्याप्तदत्तांशानि उपलब्धानि सन्ति। मृत्तिका-जलवायु-भौगोलिक-प्राकृतिक-वनस्पतिसम्बन्धि-वैज्ञानिकाधारभूमौ वृहद्योजनानिर्माणार्थं प्रमुखकृषिपारिस्थितिकक्षेत्राणां चित्रणाय अनेके प्रयासाः कृताः। ते एवं सन्ति-

  • योजना-आयोगेन निर्धारितजलवायुक्षेत्रम्
  • राष्ट्रियकृषि-अनुसन्धानपरियोजनायां कृषिजलवायुक्षेत्रम् (NARP)
  • मृदासर्वेक्षणं एवं भूम्युपयोगयोजना राष्ट्रियब्यूरोद्वारा निर्धारितकृषिपारिस्थितिकक्षेत्रम् (NBSS और Lup)

राष्ट्रियकृषि अनुसन्धानपरियोजना (एन.ए.आर.पी)

राष्ट्रियकृष्यनुसन्धानपरियोजनायाः (पी.आर.ए.एन) अन्तर्गतं भारतस्य कृषिजलवायविकक्षेत्राणां चित्रणं वर्तमाने स्थलविशिष्टानुसन्धानं विकासयितुं कृष्युत्पादनं वर्धयितुं च नीतीनां विकासाय कृषिजलवायविकक्षेत्राणां प्रत्यभिज्ञानाय च उचितप्रेरणा प्राप्ता। अत्युपयुक्तकृषिगतिविधिसम्बन्धि- योजनानामुद्देश्येन प्रतिक्षेत्रं (योजना-आयोगेन प्रस्तावितानि पञ्चदश-संसाधनविकासक्षेत्राणि) एन.ए.आर.पी-योजानान्तर्गतं मृद्-जलवायु-(तापमान)-वर्षादीनां कृषिजलवायुविज्ञानस्याभिलक्षणानुसारम् उपक्षेत्रेषु विभाजनं कृतम्।

प्रत्येकस्मिन् राज्ये बृहदनुसन्धानसमीक्षाधारितं एनएआरपीयोजनान्तर्गतं भारते 127कृषिक्षेत्राणि प्रत्यभिज्ञातानि। क्षेत्रीयपरिसीमानां चित्रणे प्रतिराज्यस्य भू-आकृतिकमण्डल-वर्षापद्धति-मृदाप्रकार-सिञ्चनोपयुक्तजलोपलब्धि-साम्प्रतिकशस्यपद्धति-प्रशासनिकएककानां तथैव विचारः क्रियते यथा क्षेत्रेषु प्राचलभेदः न तावत् अधिको भवेत्। एन.ए.आर.पी.इत्यस्य क्षेत्रीयपरिसीमाचित्रणम् अधिकतया मण्डलेषु क्वचिच्च तालुका-उपमण्डलेष्वपि पर्याप्तविचारार्थम् अधिग्रहीतम्।

योजना-आयोगद्वारा प्रदत्तकृषिजलवायुक्षेत्रम्

सप्तमयोजनानियोजनसम्बद्ध-लक्ष्यानां मध्यावधिसमीक्षायाः परिणामतः योजनाआयोगेन प्राकृतिकभूगोल-मृदा-भूवैज्ञानिकसंरचना-सिञ्चनविकास-खनिजसंसाधनयोजना-जलवायुप्रकारप्रभृतिषु आगामिरणनीतिविकासाय शस्यमाधृत्य पञ्चदशव्यापककृषिजवलायुक्षेत्रेषु देशस्य भूमेः वर्गीकरणं कृतम्। चतुर्दशक्षेत्राणि मुख्यभूमिसम्बद्धानि आसन् अन्यानि च बङ्गीयसागरावर्ते अरबसमुद्रीयद्वीपेषु च आसन्।

तकनीकि-कृषि-जलवायुतथ्याधारितनीतिविकासं कृत्वा राज्यराष्ट्रीययोजनाभिस्सह कृषिजलवायुक्षेत्राणामेकीकरणम् अस्य मुख्यमुद्देश्यं वर्तते। कृषिजलवायुक्षेत्रीययोजनायाम् अग्रे कृषिपारिस्थितिकिमानकेषु क्षेत्रीयं वर्गीकरणं सम्भवमभवत्।

राष्ट्रियब्यूरोद्वारा निर्धारितकृषिपारिस्थितिकक्षेत्र (NBSS Lup च)-प्रभावीवर्षा-मृदासमूह-मण्डलसीमानां समायोजनानन्तरं क्षेत्राणां न्यूनतमसंख्यया सह चित्रणपुरस्सरं विंशतिकृषिजलवायुक्षेत्ररूपेण मृदासर्वेक्षणं एवं भूम्युपयोगयोजना अस्तित्वं प्राप्तवती। अनन्तरं च सर्वाण्येव विंशतिः कृषिजलवायुक्षेत्राणि षष्ट्युपक्षेत्रेषु विभक्तीकृतानि।

  1. पश्चिमहिमालयः
  2. पाश्चात्यमृदाङ्गणम् कच्छकाठियावाडप्रायद्वीपीयभागः
  3. दाक्षिणात्यपठारः
  4. उदीच्यमृदाङ्गण-केन्द्रीयोच्चभूमिभिस्सह अरावलीशृङ्खला
  5. केन्द्रीयमालवोच्चभूमिः गुजरातस्य भूतलं काठियावाडप्रायद्वीप
  6. दाक्षिणात्यपठारः ऊष्णार्द्धशुष्कजलवायविकक्षेत्रम्
  7. तेलङ्गानापठारः पूर्वीघट्टश्च
  8. पूर्वीघट्टः तामिलपठारः कर्नाटकञ्च
  9. उदीच्यसामान्योष्णोपार्द्र-(शुष्क)जलवायविकक्षेत्रम्
  10. केन्द्रीयोच्चभूमिः (मालवाबुन्देलखण्डपूर्वीसतपुडाक्षेत्राणि)
  11. प्राच्यपठारः (छत्तीसगढप्रान्तः) ऊष्णोपार्द्रजलवायविकक्षेत्रम्
  12. पूर्वी (लघुनागपुरम्) पठारः पूर्वीघट्टश्च
  13. पूर्वीसाधारणम्
  14. पाश्चात्यहिमालयः
  15. बंगीय-कामरूपीय भूतलम्
  16. पूर्वीहिमालयः
  17. प्राच्योदीच्यपूर्वाञ्चलम्
  18. पूर्वीतटीयसाधारणम्
  19. पाश्चात्यघट्टः तटीयभूतलम्
  20. अण्डमाननिकोबारलक्षद्वीपस्थ दीपाः

 

स्त्रोत: कृषिजलवायुविभागः, भारतसर्वकारः

2.77777777778
स्वीयटिप्पणीः योजयतु

यदि कापि टिपाणी भवत्पक्षतः स्यात् तर्हि अत्र प्रस्तौतु

Enter the word
Back to top