অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

कृषि:

  • agri slider img new1.png

    सतत-आजीविकायै प्राकृतिकसंसाधनानां प्रबन्धनम्

    भारतम् प्राकृतिकसंसाधनानां विविधतयोपेतः समृद्धदेशः वर्तते। प्राकृतिकसंसाधनसम्पत् देशस्य जनसंख्यायाः विशालवर्गस्य आजीविकायाः स्रोतत्वेन राजते। जनसंख्या संसाधाननानां च सह- अस्तित्वतायाः सुनिश्चितीकरणार्थं संसाधनानां सततप्रबन्धनमत्यावश्यकं वर्तते। कृषेः विभिन्नविभागाः अस्मिन् तथ्ये व्यापकज्ञानं वितरन्ति।

  • agri slider2.png

    कृषिः तत्सम्बन्धिगतिविधिभिस्सह लाभकारिव्यवसाय

    कृषिः तत्सम्बन्धिगतिविधयश्च लाभकारिव्यवसायेभ्यः महदवसरं प्रयच्छति। उद्यमिसदृशं कृषकेभ्योपि उत्पादने सहायकचरणबद्धसम्पर्क-दृढनीतिगतसमर्थन-आपदाप्रबन्धनप्रभृतिमहत्वभाजकं समर्थनप्रदानस्य आवश्यकता वर्तते।पोर्टल अस्यां दिशि कृषिसम्बद्धमहत्वपूर्णबिन्दूषु ज्ञानं प्रयच्छति।

  • agri slider3.png

    ज्ञानस्य सम्प्रदानम् उत्कृष्टतमाभ्यासस्य आदानम् च

    कृषकैः आहृतैः सफलैः स्वदेशीप्रौद्योगिकि-नवाचार-उत्कृष्टमाभ्यासैश्च अपरेभ्यः कृषकेभ्यः प्रोत्साहनं तेषु आत्मविश्वासवर्धापनं च। अद्यतनसमयस्य आवश्यकतेयं --- लघुसीमान्तवर्तिकृषकेषु प्रभावीज्ञानस्य हस्तान्तरणम्।

(फसल) धान्योत्पादनम्

भागोयं धान्योत्पादनसम्बन्धिज्ञानं प्रयच्छति। अनेन सह कृषि-उत्पादनं तदुत्तरवर्तिचरणेषु लाभप्रदायिनिनूतनप्रौद्योगिकि-कृषि-आदान-कृष्युपकरण-ऋतु-विपणनादिसम्बन्धिज्ञानं प्रददाति।

पशुपालनम्

अयं भागः तकनीक्याः, पशूनां विविधजातीनां, वित्तीयसमर्थनस्य, आर्दशपरियोजनाया, डेयरी-पोल्ट्री- शूकरपालनानां अजा-मेष-शश-आदीनां वाणिज्यिकोत्पादने कृताध्ययनैस्सह पशुपालनप्रबन्धनस्य विविधायामस्य ज्ञानं ददाति।

मत्स्यपालनम्

अयं भागः मत्स्यपालनेन सह मत्स्योत्पादन-कर्कपालन-मुक्ता-मत्स्यपालन-मूल्यवर्धितोत्पादनसम्बन्धियान्त्रिकीप्रभृतीनां सूचनां प्रददाति।

सर्वोत्कृष्टकृषि-आरम्भः

अयं भागः स्थायिकृषि-पशुपालन-मत्स्यपालन-कृष्याधारितोद्यमप्रकरणाध्ययनेषु आहृतविविधविस्तारपद्धतीभिस्सह विशेषज्ञानां व्यावसायिकानुभवानां सूचनां प्रददाति।

कृषिनीतियः योजनाश्च

अयं भागः कृषिसम्बन्धितनीतीनां योजनानां उद्यानव्यवसाय-पशुपालन-मत्स्यपालन-ग्रामीणविकासप्रभृतीनां सूचनां ददाति।

कृषिसाखः बीमा च

अयं भागः कृषिः तत्सम्बन्धिकृषिऋणस्य बीमा-उत्पादसम्बन्धिविविधपक्षसम्बन्धिज्ञानं ददाति।

कृषिनिर्देशिका

अयं भागः विभिन्नानां आगतसंस्थानां कृषि-पशुपालन-मत्स्यपालनसंस्थानां कृषिविज्ञानकेन्द्राणां अभिनवकृषकाणां कृषिपोर्टल-सम्बन्धितमन्त्रायलय-कमोडिटीबोर्ड-सम्पर्कसूचीनां ज्ञानं प्रयच्छति।

कृषि-आधृतोद्योग

अस्मिन् तीव्रतया लोकप्रियतां प्राप्नुवतां विस्तृतस्तरेषु स्वीकृतानां उद्योगानां यथा मशरूमकृषिः मधुमक्षिपालनप्रभृतीनां सूचनापूर्वकं तत्तत् क्षेत्रसम्बद्धानां जनानां सामान्यप्रश्नानां उत्तरप्रस्तुतेः प्रयासः विहितः।

Last Modified : 12/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate